लक्षणानि परीक्ष्यादौ ततः कन्यां समुद्वहेत्
ब्रह्मचारि समाचार इति ते समुदी रितः
स्कंद उवाच सदा गृही सुखं भुंक्ते स्त्री लक्षणवती यदि
वपुरावर्तगंधाश्चच्छाया सत्वं स्वरो गतिः
आपादतलमारभ्य यावन्मौलिरुहं क्रमात्
आदौ पादतलं रेखास्ततोंगुष्ठांगुली नखाः
ऊरू कटी नितंबस्फिग्भगो जघन बस्तिके
रोमाली हृदयं वक्षो वक्षोजद्वयचूचुकम् ।। जत्रुस्कंधां सकक्षादोर्मणिबंध करद्वयम्
पाणिपृष्ठं पाणितलं रेखांगुष्ठांगुली नखाः
कपोलौ वक्त्रमधरोत्तरोष्ठौ द्विजजिह्विकाः
पक्ष्म भ्रूकर्णभालानि मौलि सीमंतमौलिजाः
स्त्रीणां पादतलं स्निग्धं मांसलं मृदुलं समम् 4.1.37.
रूक्षं विवर्णं परुषं खंडितप्रतिबिंबकम्
चक्र स्वस्तिक शंखाब्ज ध्वजमीनातपत्रवत्
भवेदखंडभोगायोर्द्ध्वामध्यांगुलिसंगता
उन्नतो मांसलोंगुष्ठो वर्तुलोतुलभोगदः
विधवा विपुलेन स्याद्दीर्घांगुष्ठेन दुर्भगा
दीर्घांगुलीभिः कुलटा कृशाभिरतिनिर्धना
चिपिटाभिर्भवेद्दासी विरलाभिर्दरिद्रिणी
हत्वा बहूनपि पतीन्परप्रेष्या तदा भवेत्
सा पांसुला प्रजायेत कुलत्रयविनाशिनी
सा निहत्य पतिं योषा द्वितीयं कुरुते पतिम् 4.1.37.
पतिद्वयं निहंत्याद्या द्वितीया च पतित्रयम्
प्रदेशिनी भवेद्यस्या अंगुष्ठाव्यतिरेकिणी
स्निग्धाः समुन्नतास्ताम्रा वृत्ताः पादनखाः शुभाः
राज्ञीत्वसूचकं स्त्रीणां पादपृष्ठं समुन्नतम्
दरिद्रा मध्यनम्रेण शिरालेन सदाध्वगा
गूढौ गुल्फौ शिवायोक्तावशिरालौ सुवर्तुलौ
समपार्ष्णिः शुभा नारी पृथुपार्ष्णिश्च दुर्भगा
रोमहीने समे स्निग्धे यज्जंघे क्रमवर्तुले