उत्साह मेधा सौभाग्य रूप संपत्प्रवर्तकम् 4.1.35.
प्रस्वेद लालाद्याक्लिन्नो निद्राधीनो यतो नरः
प्रातःप्रातस्तु यत्स्नानं संजाते चारुणोदये
प्रातःस्नानं हरेत्पापमलक्ष्मीं ग्लानिमेव च
नोपसर्पंति वै दुष्टाः प्रातःस्नायिजन क्वचित्
प्रसंगतः स्नानविधिं वक्ष्यामि कलशोद्भव
विशुद्धां मृदमादाय बर्हींषि तिल गोमयम्
उपग्रही बद्धशिखो जलमध्ये समाविशेत्
ये ते शतं ततो जप्त्वा तोयस्यामंत्रणाय च क्षिपेद्द्वेष्यं समुद्दिश्य जपन्दुर्मित्रिया इति
इदं विष्णुरिमं जप्त्वा लिंपेदंगानि मृत्स्नया
नाभेरधस्तु तिसृभिः पादौ षड्भिर्विशोधयेत् मज्जेत्प्रवाहाभिमुख आपो अस्मानिमं जपन् ।।4.1.35.
प्रणवं त्रिर्जपेद्वापि विष्णुं वा संस्मरेत्सुधीः आचम्य च ततः कुर्यात्प्रातःसंध्यां कुशान्विताम् 4.1.35.
एकं संभोज्य विधिवद्ब्राह्मणं यत्फलं लभेत् 4.1.35.
गृहाद्बहुगुणा यस्मात्संध्या बहिरुपासिता 4.1.35.
नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किमु पावनाः 4.1.35.
इमं मंत्रं ततश्चोक्त्वा कुर्यादाचमनं द्विजः 4.1.35.
सहस्रकृत्वो गायत्र्याः शतकृत्वोथवा पुनः 4.1.35.
अर्चितः सविता सूते सुतान्पशु वसूनि च
अन्वारब्धेन सव्येन तर्पयेत्षड्विनायकान् 4.1.35.
उदीरतामगिंरस आयंतुन इतीष्यते 4.1.35.
अध्यापयेच्छुचीञ्शिष्यान्हितान्मेधासमन्वितान् 4.1.35.
ॐभूर्भुवःस्वःस्वाहेति विप्रो दद्यात्तथाहुतिम् 4.1.35.
प्रतिगृह्णंत्विमं पिंडं काका भूमौ मयार्पितम् 4.1.35.
विधायान्नमनग्नं तदुपरिष्टादधस्तथा 4.1.35.
अंगुष्ठमात्रः पुरुषस्त्वंगुष्ठं च समाश्रितः 4.1.35.
अग्निश्चेति च मंत्रेण विधायाचमने सुधीः 4.1.35.
उद्देशतः समाख्यातो ह्येष नित्यतमो विधिः
स्कंद उवाच पुनर्विशेषं वक्ष्यामि सदाचारस्य कुंभज
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजाः स्मृताः
एषां क्रियानिषेकादि श्मशानांता च वैदिकी