अथो मृदं समादाय जंतुकर्करवर्जिताम्
गुह्ये दद्यान्मृदं चैकां पायौ पंचांबुसां तराः 4.1.35.
एकैकां पादयोर्दद्यात्तिस्रः पाण्योर्मृदस्तथा
क्रमाद्द्वैगुण्यमेतस्माद्ब्रह्मचर्यादिषु त्रिषु
रुज्यर्धं च तदर्धं च पथि चौरादि बाधिते
अपि सर्वनदीतोयैर्मृत्कूटैश्चापि गोमयैः
आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः प्रागास्य उदगास्योवा सूपविष्टः शुचौ भुवि
अनुष्णाभिरफेनाभिरद्भिर्हृद्गाभिरत्वरः
कंठगाभिर्नृपः शुद्ध्येत्तालुगाभिस्तथोरुजः
शिरः प्रावृत्य कंठं वा जले मुक्तशिखोऽपि च
त्रिः पीत्वांबु विशुद्ध्यर्थं ततः खानि विशोधयेत् 4.1.35.
अंगुलीभिस्त्रिभिः पश्चात्पुनरास्यं स्पृशेत्सुधीः
अंगुष्ठानामिकाग्राभ्यां चक्षुः श्रोत्रे पुनः पुनः
स्पृष्ट्वा तलेन हृदयं समस्ताभिः शिरः स्पृशेत्
आचांतः पुनराचामेत्कृते रथ्योपसर्पणे
सुप्त्वा वासः परीधाय तथा दृष्ट्वाप्यमंगलम्
अथो मुखविशुद्ध्यर्थं गृह्णीयाद्दंतधावनम्
प्रतिपद्दर्शषष्ठीषु नवम्यां रविवासरे
अलाभे दंतकाष्ठानां निषिद्धे वाथ वासरे
कनिष्ठाग्र परीमाणं सत्वचं निर्व्रणं ऋजुम्
एकैकांगुलह्रासेन वर्णेष्वन्येषु कीर्तितम् 4.1.35.
शम्यपामार्गखर्जूरीशेलुश्रीपर्णिपीलुजम्
क्षीरवृक्षोद्भवं वापि प्रशस्तं दंतधावनम्
अन्नाद्याय व्यूहध्वं सोमोराजाय मा गमत्
आयुर्बलं यशो वर्चः प्रजाः पशु वसूनि च
मंत्रावेतौ समुच्चार्य यः कुर्याद्दंतधावनम्
मुखे पर्युषिते यस्माद्भवेदशुचिभाग्नरः
उपवासेपि नो दुष्येद्दंतधावनमंजनम्
प्रातःसंध्यां ततः कुर्याद्दंतधावनपूर्विकाम्
प्रातःस्नानाद्यतःशुद्ध्येत्कायोयं मलिनः सदा