कृती संचिनुयाद्धर्मं ततोऽमुत्र सहायिनम्
संबंधानाचरेन्नित्यमुत्तमैरुत्तमैः सुधीः 4.1.35.
उत्तमानुत्तमानेव गच्छन्हीनांश्च वर्जयन्
अनध्ययनशीलं च सदाचारविलंघिनम्
ततोऽभ्यसेत्प्रयत्नेन सदाचारं सदा द्विजः
रजनीप्रांतयामार्धं बाह्मः समय उच्यते
गजास्यं संस्मरेदादौ तत ईशं सहांबया
इंद्रादीन्सकलान्देवान्वसिष्ठादीन्मुनीनपि
क्षीरोदादीन्समुद्रांश्च मानसादि सरांसि च
कल्पवृक्षादि वृक्षांश्च धातून्कांचनमुख्यतः
नागाश्च शेषप्रमुखान्गजानैरावतादिकान्
स्मरेदरुंधतीमुख्याः पतिव्रतवतीर्वधूः 4.1.35.
विश्वेशादीनि लिंगानि वेदानृक्प्रमुखानपि
प्रणवादिमहाबीजं नारदादींश्च वैष्णवान्
वदान्यांश्च दधीच्यादीन्हरिश्चंद्रादि भूपतीन्
पितरं च गुरूंश्चापि हृदि ध्यात्वा प्रसन्नधीः
ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुणम्
कर्णोपवीत्युदग्वक्त्रो दिवसे संध्ययोरपि
न तिष्ठन्नाप्सु नो विप्र गो वह्न्यनिल संमुखः
नालोकयेद्दिशोभागाञ्ज्योतिश्चक्रं नभोमलम्
अथो मृदं समादाय जंतुकर्करवर्जिताम्
गुह्ये दद्यान्मृदं चैकां पायौ पंचांबुसां तराः 4.1.35.
एकैकां पादयोर्दद्यात्तिस्रः पाण्योर्मृदस्तथा
क्रमाद्द्वैगुण्यमेतस्माद्ब्रह्मचर्यादिषु त्रिषु
रुज्यर्धं च तदर्धं च पथि चौरादि बाधिते
अपि सर्वनदीतोयैर्मृत्कूटैश्चापि गोमयैः
आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः प्रागास्य उदगास्योवा सूपविष्टः शुचौ भुवि
अनुष्णाभिरफेनाभिरद्भिर्हृद्गाभिरत्वरः
कंठगाभिर्नृपः शुद्ध्येत्तालुगाभिस्तथोरुजः
शिरः प्रावृत्य कंठं वा जले मुक्तशिखोऽपि च