कदा वज्रांगदः सिद्धः कथं देवमपूजयत्
तस्यैव पादपर्यंते स्वस्य वासमरोचयत्
अथास्य महती सेना वाहमार्गानुसारिणी
समदृश्यत भूपालस्तादृशो धैर्यसागरः
ततस्तामागतां सेनामवनीपतिरादृतः
स्वकीयमखिलं कोशं देशानपि महाफलान्
गौतमस्याश्रमाभ्याशे स्वयं कृततपोवनः
रत्नांगदाख्यं तनयं स्थापयित्वा निजे पदे
परितः शोणशैलस्य परिपूर्णजलाशयान् 1.3.2.24.
तेजसारुणनाथस्य ज्वलनस्तंभरूपिणः
सौंदर्यशालिनीरात्मपरिवारवरांगनाः
अथागतेनागस्त्येन लोपामुद्रासखेन सः
प्रत्यहं नवतीर्थाख्ये सरसि स्नानमाचरन्
महिषासुरसंहारकारिणी मानवेश्वरः
प्रतिक्षणं ब्रह्मविष्णुपूज्यस्य लिंगरूपिणः
प्रत्युषस्युत्थितः स्नातः पादाभ्यामेव पार्थिवः
पौर्णमास्यां स कार्त्तिक्यां पार्वतीवल्लभप्रियम्
सुगंधसारकह्लारकर्पूरजलपूरितः
प्रतिमासध्वजारोहपूर्वं तीर्थोत्सवादिकम् 1.3.2.24.
अंगं प्रदक्षिणं चास्य विदधे विशदाशयः
अरुणाचलनाथेति करुणामृतसागरः
संलिप्य विविधैर्द्रव्यैर्नित्यं पंचामृतादिभिः
अपूजयत कल्हारैः स्रवन्मृगमदद्रवैः
इति वर्षत्रयं तस्य वशिनो वरिवस्यया
नीहाराचलसंकाशमारूढो वृषपुंगवम्
ब्रह्मर्षिभिर्वसिष्ठाद्यैर्नारदाद्यैर्महर्षिभिः
करुणासिंधुकल्लोलैः कमलावासवेश्मभिः
दृष्ट्वा च देवदेवं तमष्टांगं न्यस्य भूतले
व्यज्ञापयच्च भूपालो मौलीकृतशतांजलिः 1.3.2.24.
अचारिषं स एकोऽयं क्षम्यतां मे व्यतिक्रमः