कियंति संति नो भूम्यां मोक्षक्षेत्राणि षण्मुख
गंगा विश्वेश्वरः काशी जागर्ति त्रितयं यतः 4.1.35.
कथमेषा त्रयी स्कंद प्राप्यते नियतं नरैः
तपस्तादृक्क्व वा तिष्ये तिष्ये योगः क्व तादृशः
विनापि तपसा स्कंद विनायोगेन षण्मुख
किं किमाचरता स्कंद काशी प्राप्येत तद्वद
आचारः परमो धर्म आचारः परमं तपः
आचारमेव प्रथमं तस्मादाचक्ष्व षण्मुख
यदाचरन्नरो नित्यं सर्वान्कामानवाप्नुयात्
स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः
सहस्रभागः प्रथमा द्वितीयोनुक्रमात्तथा
चतुर्णामपि भूतानां प्राणिनोऽतीव चोत्तमाः 4.1.35.
मतिमद्भ्यो नराः श्रेष्ठास्तेभ्यः श्रेष्ठास्तु वाडवाः
कृतधीभ्योपि कर्तारः कर्तृभ्यो ब्रह्मतत्पराः
अन्योन्यमर्चकास्ते वै तपोविद्याऽविशेषतः
अतो जगत्स्थितं सर्वं ब्राह्मणोऽर्हति नापरः तस्माद्विप्रेण सततं भाव्यमाचारशीलिना
विद्वेष रागरहिता अनुतिष्ठंति यं मुने
लक्षणैः परिहीनोपि सम्यगाचारतत्परः
श्रुतिस्मृतिभ्यामुदितं स्वेषु स्वेषु च कर्मसु
दुराचाररतो लोके गर्हणीयः पुमान्भवेत्
त्याज्यं कर्म पराधीनं कायमात्मवशं सदा
यस्मिन्कर्मण्यंतरात्मा क्रियमाणे प्रसीदति 4.1.35.
प्रथमं धर्मसर्वस्वं प्रोक्ता यन्नियमा यमाः
सत्यं क्षमार्जवं ध्यानमानृशंस्यमहिंसनम्
शौचं स्नानं तपो दानं मौनेज्याध्ययनं व्रतम्
कामं क्रोधं मदं मोहं मात्सर्यं लोभमेव च
शनैः शनैः स चिनुयाद्धर्मं वल्मीक शृंगवत्
धर्म एव सहायी स्यादमुत्र न परिच्छदः
जायते चैकलः प्राणी प्रम्रियेत तथैकलः
देहं पंचत्वमापन्नं त्यक्त्वा कौ काष्ठलोष्ठवत्