कः प्रार्थ्यः प्रार्थनीयं किं को वा प्रार्थयिता प्रिये
देशः कोशो बलं दुर्गं यदन्यदपि भामिनि
तच्च स्वाम्यं ममान्यत्र त्वदृते जीवितेश्वरि
माल्पकेतोर्महीजानेरिति वाक्यं निशम्य सा
कलावत्युवाच प्रजाहिताय संसृष्टं पुरुषार्थचतुष्टयम्
तद्विहीनाजनिरपि जल बुद्बुदवन्मुधा
यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते 4.1.34.
मद्विधाना तु दासीनां शतं तेऽस्तीह मंदिरे
तव दास्यपि भोगाढ्या किमुतांकस्थलीचरी
विपश्चित्संचयेदर्थानिष्टापूर्ताय कर्मणे
तवैतत्सर्वमस्तीह विश्वेशानुग्रहात्प्रिय
तूर्णं प्रहिणु मां नाथ विश्वनाथपुरीं प्रति
माल्यकेतुः कलावत्या इत्याकर्ण्य वचः स्फुटम्
प्रिये कलावति यदि तव गंतव्यमेव हि
न राज्यं राज्यमित्याहू राज्यश्रीः प्रेयसी ध्रुवम्
निःसपत्नं कृतं राज्यं भुक्त्वा भोगान्निरंतरम्
अपत्यान्यपि जातानि किं कर्तव्यमिहास्ति मे 4.1.34.
अथ प्रातः समुत्थाय कृत्वा शौचाचमक्रियाम् 4.1.34.
चांद्रायणव्रतैः कृच्छ्रैर्भर्तुः शुश्रूषणैरपि
उवाच च प्रसन्नास्य आशीर्भिरभिनद्य च
तावद्विमानमापन्नं सक्वणत्किंकिणीगणम् 4.1.34.
पठित्वा पाठयित्वा वा श्रुत्वा वा श्रद्धयान्वितः
क्षेत्राणां परमं क्षेत्रं मंगलानां च मंगलम्
श्मशानानां च सर्वेषां श्मशानं परमं महत्
धर्माभिलाषिबुद्धीनां धर्मराशिकरं परम्
कामिनां कामजननं मुमुक्षूणां च मोक्षदम्
क्षेत्रैकदेशवर्तिन्या ज्ञानवाप्याः कथां पराम्
अणुप्रमाणमपि या मध्ये काशिविकासिनी
कियंति संति तीर्थानि नेह क्षोणीतलेऽखिले
कियंत्यो न स्रवंत्योत्र रत्नाकर मुदावहाः