स्वापयामास तन्वंगीं स्रवच्छीतांबुशीतले
अतितापपरीतांगी ताः सखीः प्रत्यभाषत
उपचारानिमान्सवार्न्दूरी कुरुत मा चिरम्
दृष्ट्वा चित्रपटीमेषा सद्यो विह्वलतामगात्
अतश्चित्रपटीस्पर्शात्परितापं विहास्यति
निधाय तत्पुरः प्रोचुः पटीं पश्य कलावति
सापीष्टदेवतानाम्ना तत्पटीदर्शनेन च 4.1.34.
अवग्रहपरिम्लाना वर्षासारैरिवौषधीः
स्पृष्ट्वा कलावती तां तु वापीं चित्रगतामपि
पुनर्विचारयांचक्रे वापी माहात्म्यमुत्तमम्
ज्ञानं मे जनयामास भवांतर समुद्भवम्
निजं प्राग्भव वृत्तांतं ज्ञानवापीप्रभावजम् कलावत्युवाच एतस्माज्जन्मनः पूर्वमहं ब्राह्मणकन्यका
उपविश्वेश्वरं काश्यां ज्ञानवाप्यां रमे मुदा
आख्या मम सुशीलेति मां च विद्याधरोऽहरत्
रक्षसा सहतो वीरो राक्षसं स जघानह
अवाप जन्मगंधर्वस्त्वसौ मलयकेतुतः
इति ज्ञानं ममोद्भूतं ज्ञानवापीक्षणात्क्षणात् 4.1.34.
ताश्च तत्परिचारिण्यः प्रहृष्टास्यास्तदाऽभवन्
अहो कथं हि सा लभ्या यत्प्रभावोयमीदृशः
कलावति नमस्तुभ्यं कुरुनोपि समीहितम्
अयं च नियमोस्माकमद्यारभ्य कलावति
अवश्यं ज्ञानवापी सा नाम्ना भवितुमर्हति
ॐकृत्य तासां वाक्यं सा स्वाकारं परिगोप्य च
कलावत्युवाच त्वामासाद्य पतिं राजन्प्राप्ताः सर्वे मनोरथाः
एको मनोरथः प्रार्थ्यो ममास्त्यत्रार्यपुत्रक
मम तु त्वदधीनायाः सुदुष्प्रापतरो महान्
प्राणेश किं बहूक्तेन यदि प्राणैः प्रयोजनम् 4.1.34.
प्राणेभ्योपि गरीयस्यास्तस्या वाक्यं निशम्य सः
राजोवाच नाहं प्रिये तवादेयमिह पश्यामि भामिनि
अविलंबितमाचक्ष्व कृतं विद्धि कलावति