आमध्याद्देवसरित आ हरिश्चंद्रमडपात्
एतद्रजःकणतुलां त्रिलोक्यपि न गच्छति
कलावती चित्रपटीं पश्यंतीत्थं मुहुर्मुहुः
यदंबुसततं रक्षेद्दुर्वृत्ताद्दंडनायकः
योष्टमूर्तिर्महादेवः पुराणे परिपठ्यते
नेत्रयोरतिथीकृत्य ज्ञानवापी कलावती
अंगानि वेपथुं प्रापुः स्विन्ना भालस्थली भृशम् 4.1.34.
तस्तंभ गात्रलतिका मुखवैवर्ण्यमाप च
साक्षणं स्वं विसस्मार काहं क्वाहं न वेत्ति च
अथ तत्परिचारिण्यस्त्वरमाणा इतस्ततः
तदवस्थां समालोक्य तां ताश्चतुरचेतसः
भवांतरे प्रेमपात्रमेतयैक्षितु किंचन
अथनेत्थं कथमियमकांडात्पर्यमूमुहत्
तन्मोहस्य निदानं ताःसम्यगेव विचार्य च
काचित्तां वीजयांचक्रे कदलीतालवृंतकैः
अमंदैश्चंदनरसैरभ्यषिंचदमुं परा
धारामंडपधारांबुसीकरैस्तत्तनूलताम् 4.1.34.
जलार्द्रवाससा काचिदेतस्यास्तनुमावृणोत्
पद्मिनीदलशय्या च काचित्यरचयन्मृदुम्
मुक्ताकलापं रचयांचक्रे वक्षोजमंडले
स्वापयामास तन्वंगीं स्रवच्छीतांबुशीतले
अतितापपरीतांगी ताः सखीः प्रत्यभाषत
उपचारानिमान्सवार्न्दूरी कुरुत मा चिरम्
दृष्ट्वा चित्रपटीमेषा सद्यो विह्वलतामगात्
अतश्चित्रपटीस्पर्शात्परितापं विहास्यति
निधाय तत्पुरः प्रोचुः पटीं पश्य कलावति
सापीष्टदेवतानाम्ना तत्पटीदर्शनेन च 4.1.34.
अवग्रहपरिम्लाना वर्षासारैरिवौषधीः
स्पृष्ट्वा कलावती तां तु वापीं चित्रगतामपि
पुनर्विचारयांचक्रे वापी माहात्म्यमुत्तमम्