संसारसर्पदष्टानां जंतूनां यत्र शंकरः
न कापिलेन योगेन न सांख्येन न च व्रतैः
वैकुंठे विष्णुभवने विष्णुभक्तिपरायणाः
हुत्वाग्निहोत्रमपि च यावज्जीवं द्विजोत्तमाः
वेदान्पठित्वा विधिवद्ब्रह्मयज्ञरता भुवि
इष्ट्वा क्रतूनपि नृपा बहून्पर्याप्तदक्षिणान्
सीमंतिन्योपि सततं पतिव्रतपरायणाः
वैश्या अपि च सेवंते न्यायोपार्जितसंपदः
त्यक्त्वा पुत्रकलत्रादि सच्छूद्रा न्यायमार्गगाः 4.1.34.
यावज्जीवं चरंतोपि ब्रह्मचर्य जितेंद्रियाः
अतिथीनपि संतर्प्य पंचयज्ञरता अपि
वानप्रस्थाश्रमयुजो ज्ञात्वा निर्वाणसाधनम्
अनन्यसाधनां मुक्तिं ज्ञात्वा शास्त्रैरनेकधा
दंडयित्वा मनोवाचं कायं नित्यं त्रिदंडिनः
शिखी मुंडी जटी वापि कौपीनी वा दिगंबरः
तपःकर्तुं न शक्ता ये दानं वा दातुमक्षमाः १- हेलयैषा यथा दद्यान्निर्वाणं मणिकर्णिका
अनशनव्रतभृते त्रिकालाभ्यवहारिणे 4.1.34.
यथोक्तमाचरेदेको निष्ठा पाशुपतंव्रतम्
दृष्टात्र वपुषः पाते द्वयोश्च सदृशी गतिः
स्वर्गद्वारे विशेयुर्ये विगाह्य मणिकर्णिकाम्
स्वर्गद्वाः स्वर्गभूरेषा मोक्षभूर्मणिकर्णिका
दत्त्वा दानान्यनेकानि विगाह्य मणिकर्णिकाम्
स्वर्गापवर्गयोरर्थः कोविदैश्च निरूपितः
मणिकर्ण्युपविष्टस्य यत्सुखं जायते सतः
महासुखं यदुद्दिष्टं समाधौ विस्मृतात्मनाम्
स्वर्गद्वारात्पुरोभागे देवनद्याश्च पश्चिमे
यावंतो भास्वतः स्पर्शाद्भासंते सैकताः कणाः 4.1.34.
संति तीर्थानि तावंति परितो मणिकर्णिकाम्
यदन्वये कोपि मुक्तः संप्राप्य मणिकर्णिकाम्
तर्पिताः पितरो येन संप्राप्य मणिकर्णिकाम्