तच्चारुलोचनक्षेत्रे विचरंतौ च खंजनौ 4.1.33.
सुदत्या रदनश्रेणी छेदेषु विषमेषुणा
प्रायो मदन भूपाल हर्म्य रत्नांतरे शुभे
स्वर्गे मर्त्ये च पाताले नैषा रेखा क्वचित्स्त्रियाम्
शंके चित्त भुवो राज्ञो लसत्पटकुटीद्वयम्
अनंगभू नियमतोऽदृश्ये मध्ये नतभ्रुवः
तस्या नाभीदरीं प्राप्य कंदर्पोऽनंगता गतः
गुरुणैतन्नितंबेन महामन्मथ दीक्षया
ऊरुस्तंभेन चैतस्याः स्तंभवत्कस्यनो मनः
पादांगुष्ठनखज्योतिः प्रभया कस्य न प्रभा
सा प्रत्यहं ज्ञानवाप्यां स्नायं स्नायं शिवालये 4.1.33.
तत्पादप्रतिबिंबेषु रेखा शष्पांकुरं चरन्
तदास्य पंकजं हित्वा यूनां नेत्रालिमालया
सुलोचनापि सा कन्या प्रेक्षेतास्यं न कस्यचित्
सुशीला शीलसंपन्ना रहस्तद्विरहातुरैः
धनैस्तस्याजनेतापि युवभिः प्रार्थितो बहु
ज्ञानोदतीर्थभजनात्सा सुशीला कुमाग्किा
कदाचिदेकदा तां तु प्रसुप्तां सदनांगणे
व्योमवर्त्मनितां रात्रौ यावन्मलयपर्वतम्
राक्षसो भीषणवपुः कपालकृतकुंडलः
राक्षस उवाच ममदृग्गोचरं यातो विद्याधरकुमारक 4.1.33.
इति श्रुत्वाथ सा वाक्यं व्याघ्राघ्राता मृगी यथा
निजघान त्रिशूलेन रक्षो विद्याधरं च तम्
तद्भीषणत्रिशूलेन भिन्नोस्को महाबलः
नरमांसवसामत्तं विद्युन्मालिनमाहवे
राक्षसो मृत्युवशगो वज्रेणेव महीधरः
उवाच गद्गदं वाक्यं विघूर्णित विलोचनः
जहौ प्राणान्रणे वीरस्तां प्रियां परितः स्मरन्
अनन्यपूर्वसंस्पर्श सुखं समनुभूय सा
लिंगत्रयशरीरिण्यास्तस्याः सान्निध्यतः स हि