अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः 4.1.33.
एकादश्यामुपोष्यात्र प्राश्नाति चुलुकत्रयम्
ईशानतीर्थे यः स्नात्वा विशेषात्सोमवासरे
ततः समर्च्य श्रीलिंगं महासंभारविस्तरैः
उपास्य संध्यां ज्ञानोदे यत्पापं काललोपजम् । क्षणेन तदपाकृत्य ज्ञानवाञ्जायते द्विजः
शिवतीर्थमिदं प्रोक्तं ज्ञानतीर्थमिदं शुभम्
स्मरणादपि पापौघो ज्ञानोदस्य क्षयेद्ध्रुवम्
डाकिनीशाकिनी भूतप्रेतवेतालराक्षसाः
ज्वरापस्मारविस्फोटद्वितीयकचतुर्थकाः
ज्ञानोदतीर्थपानीयैर्लिंगं यः स्नापयेत्सुधीः
ज्ञानरूपोह मेवात्र द्रवमूर्तिं विधाय च 4.1.33.
इति दत्त्वा वराञ्छंभुस्तत्रैवांतरधीयत
ईशानो जटिलो रुद्रस्तत्प्राश्य परमोदकम्
ज्ञानवाप्यां हि यद्वृत्तं तदाख्यामि निशामय
हरिस्वामीति विख्यातः काश्यामासीद्विजः पुरा
न समा शीलसंपत्त्या तस्या काचन भूतले
न नारी तादृगस्तीह ना भरी किन्नरी न च [
सर्वसौंदर्यनिलया सर्वलक्षणसत्खनिः
तदास्य शरणं यातो मन्ये दर्शभयाच्छशी
तद्भ्रूर्भ्रमरराजीव गंडपत्रलतांतरे
तच्चारुलोचनक्षेत्रे विचरंतौ च खंजनौ 4.1.33.
सुदत्या रदनश्रेणी छेदेषु विषमेषुणा
प्रायो मदन भूपाल हर्म्य रत्नांतरे शुभे
स्वर्गे मर्त्ये च पाताले नैषा रेखा क्वचित्स्त्रियाम्
शंके चित्त भुवो राज्ञो लसत्पटकुटीद्वयम्
अनंगभू नियमतोऽदृश्ये मध्ये नतभ्रुवः
तस्या नाभीदरीं प्राप्य कंदर्पोऽनंगता गतः
गुरुणैतन्नितंबेन महामन्मथ दीक्षया
ऊरुस्तंभेन चैतस्याः स्तंभवत्कस्यनो मनः
पादांगुष्ठनखज्योतिः प्रभया कस्य न प्रभा