युवामपि मदोद्भूतमालिन्यौ शिक्षितौ मया
तिरश्चोरपि वां सिध्येदरुणाद्रेः प्रदक्षिणा
इत्यमर्षणमहर्षिमहाब्धेः शापहालहल शोषितगात्रौ
अयासीदौपवाह्यत्वं भवतो राजपुंगव
अहं च गंधमृगतां गतः स्वांगप्रसूतिना
धर्मात्मन्मृगयाव्याजादागतेन त्वयाधुना
वाहारोहणदोषेण तवासीदीदृशी दशा
राजेंद्र तव संबंधादस्मात्तिर्यक्त्वबंधनात्
इत्युदीर्य निजं धाम यियासंतं कलाधरम्
एवं युवां शोणशैलशंकरस्य प्रभावतः
भ्राम्यतीव मम स्वांतमाधाय तदवेक्षणम्
कलाधरकांतिशालिनावूचतुः अवधारय निस्तारं कथयाव तवास्यदम्
जगत्सर्गस्थितिध्वंसविधानानुग्रहेश्वरे 1.3.2.23.
प्रत्यक्षितं त्वयेदानीमस्य देवस्य वैभवम्
कुरु प्रदक्षिणां पादचारी मृगमदादृतैः
यावती तव संपत्तिस्तावतीमखिलां विभो
अचिरादेव सिद्धिस्ते भविष्यति गरीयसी
निःसंशयेन मनसा निरतस्तदानीं भक्तिं बबंध भगवत्यरुणाद्रिनाथे
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे कलाधरकांतिशालिवृत्तांतवर्णनंनाम त्रयोविंशतितमोऽध्यायः
नंदीश चित्रं चारित्रं श्रुतं विद्याभृतोर्द्वयोः
कदा वज्रांगदः सिद्धः कथं देवमपूजयत्
तस्यैव पादपर्यंते स्वस्य वासमरोचयत्
अथास्य महती सेना वाहमार्गानुसारिणी
समदृश्यत भूपालस्तादृशो धैर्यसागरः
ततस्तामागतां सेनामवनीपतिरादृतः
स्वकीयमखिलं कोशं देशानपि महाफलान्
गौतमस्याश्रमाभ्याशे स्वयं कृततपोवनः
रत्नांगदाख्यं तनयं स्थापयित्वा निजे पदे
परितः शोणशैलस्य परिपूर्णजलाशयान् 1.3.2.24.
तेजसारुणनाथस्य ज्वलनस्तंभरूपिणः