सन्मनोभिरिवात्यच्छैरनच्छैर्व्योमवर्त्मवत् 4.1.33.
पीयूषवत्स्वादुतरैः सुखस्पर्शैर्गवांगवत्
विजिताब्जमहागंधैः पाटलामोदमोदिभिः
अज्ञानतापसंतप्त प्राणिप्राणैकरक्षिभिः
श्रद्धोपस्पर्शि दृदयलिंग त्रितयहेतुभिः
विश्वभर्तुरुमास्पर्शसुखातिसुखकारिभिः
सहस्रधारैः कलशैः स ईशानो घटोद्भव
ततः प्रसन्नो भगवान्विश्वात्मा विश्वलोचनः
तव प्रसन्नोस्मीशान कर्मणानेन सुव्रत
ततस्त्वं जटिलेशान वरं ब्रूहि तपोधन
तदेतदतुलं तीर्थं तव नाम्नास्तु शंकर ।। 4.1.33.
त्रिलोक्यां यानि तीर्थानि भूर्भुवःस्वः स्थितान्यपि
शिवज्ञानमिति ब्रूयुः शिवशब्दार्थचिंतकाः
अतो ज्ञानोद नामैतत्तीर्थं त्रैलोक्यविश्रुतम् ।। अस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते
ज्ञानोदतीर्थसंस्पर्शादश्वमेधफलं लभेत्
फल्गुतीर्थे नरः स्नात्वा संतर्प्य च पितामहान्
गुरुपुष्यासिताष्टम्यां व्यतीपातो यदा भवेत्
यत्फलं समवाप्नोति पितॄन्संतर्प्य पुष्करे
सन्निहत्यां कुरुक्षेत्रे तमोग्रस्ते विवस्वति
पिंडनिर्वपणं येषां ज्ञानतीर्थे सुतैः कृतम्
अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः 4.1.33.
एकादश्यामुपोष्यात्र प्राश्नाति चुलुकत्रयम्
ईशानतीर्थे यः स्नात्वा विशेषात्सोमवासरे
ततः समर्च्य श्रीलिंगं महासंभारविस्तरैः
उपास्य संध्यां ज्ञानोदे यत्पापं काललोपजम् । क्षणेन तदपाकृत्य ज्ञानवाञ्जायते द्विजः
शिवतीर्थमिदं प्रोक्तं ज्ञानतीर्थमिदं शुभम्
स्मरणादपि पापौघो ज्ञानोदस्य क्षयेद्ध्रुवम्
डाकिनीशाकिनी भूतप्रेतवेतालराक्षसाः
ज्वरापस्मारविस्फोटद्वितीयकचतुर्थकाः
ज्ञानोदतीर्थपानीयैर्लिंगं यः स्नापयेत्सुधीः