भिल्ली हल्लीसकप्रीति झिल्लीरावविराविणम्
मरालीगलनालीस्थ बिसासक्तसितच्छदम्
बकशावकसंचारं लक्ष्मणासक्त सारसम् 4.1.32.
चंद्रकांतशिलासुप्तकृष्णैणहरितोडुपम् दर्शयन्नित्थमाक्रीडं देव्यै देवोविशद्वनम् ।। 4.1.32.
ब्रह्मज्ञानं न विंदंति योगैरेकेन जन्मना 4.1.32.
पुण्यवानितरो वापि मम क्षेत्रस्य सेवया
विधाय क्षेत्रसंन्यासं ये वसंतीह मानवाः 4.1.32.
सत्वावलंबितप्राणमायुःशेषेणरक्षितम् 4.1.32.
श्रुत्वोदितां तस्य महेश्वरो गिरं मृद्वीकया साम्यमुपेयुषीं मृदु 4.1.32.
मद्भक्तियुक्तोपि विना त्वदीयां भक्तिं न काशी वसतिं लभेत 4.1.32.
धन्यो यक्षः पूर्णभद्रो धन्या कांचनकुंडला 4.1.32.
ज्ञानवापीं प्रशंसंति यतः स्वर्गौकसोप्यलम्
ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाधुना
अनादिसिद्धे संसारे पुरा देवयुगे मुने
न वर्षंति यदाभ्राणि न प्रावर्तंत निम्रगाः
क्षारस्वादूदयोरेव यदासीज्जलदर्शनम्
निर्वाणकमलाक्षेत्रं श्रीमदानंदकाननम्
महाशयनसुप्तानां जंतूनां प्रतिबोधकम्
यातायातातिसंखिन्न जंतुविश्राममंडपम
सच्चिदानंदनिलयं परब्रह्मरसायनम्
प्रविश्य क्षेत्रमेतत्स ईशानो जटिलस्तदा 4.1.33.
आलुलोके महालिंगं वैकुंठपरमेष्ठिनोः
ज्योतिर्मयीभिर्मालाभिः परितः परिवेष्टितम्
सिद्धानां योगिनां स्तोमैरर्च्यमानं निरंतरम्
अंगहारैरप्सरोभिः सेव्यमानमनेकधा
विद्याधरीकिन्नरीभिस्त्रिकालं कृतमंडनम्
अस्येशानस्य तल्लिंगं दृष्ट्वेच्छेत्यभवत्तदा
चखान च त्रिशूलेन दक्षिणाशोपकंठतः
पृथिव्यावरणांभांसि निष्क्रांतानि तदा मुने
तैर्जलैः स्नापयांचक्रे त्वत्स्पृष्टैरन्यदेहिभिः तुषारैर्जाड्यविधुरैर्जंजपूकौघहारिभिः