करौ तत्कौतुककरौ मनो मनति नापरम्
भक्ष्यते सर्वभक्ष्याणि त्र्यक्षप्रत्यक्षगान्यपि
गच्छन्गायन्स्वपंस्तिष्ठञ्च्छयानोऽदन्पिबन्नपि 4.1.32.
क्षणदासु प्रसुप्तोपि क्व यासीति वदन्मुहुः
स्पष्टां चेष्टां विलोक्येति हरिकेशस्य तत्पिता
एते तुरंगमा वत्स तवैतेऽश्वकिशो रकाः
रत्नान्याकरशुद्धानि नानाजातीन्यनेकशः
अमत्राणि महार्हाणि रौप्य कांस्यमयानि च
चामराणि विचित्राणि गंधद्रव्याण्यनेकशः
एतत्त्वदीयं सकलंवस्तुजातं समंततः
चेष्टास्त्यज दरिद्राणां धूलिधूसरिणाममूः
तां दशां चरमां प्राप्य भक्तियोगं ततश्चर
रुष्टदृष्टिं च जनकं कदाचिदवलोक्य सः 4.1.32.
ततश्चिंतामवापोच्चैर्दिग्भ्रांतिमपि चाप्तवान्
क्व यामि क्व स्थिते शंभो मम श्रेयो भविष्यति
इति श्रुतं मया पूर्वं पितुरुत्संगवर्तिना
मात्रा पित्रा परित्यक्ता ये त्यक्ता निजबंधुभिः
जरया परिभूता ये ये व्याधिविकलीकृताः
पदे पदे समाक्रांता ये विपद्भिरहर्निशम्
पापराशिभिराक्रांता ये दारिद्र्य पराजिताः
संसार भयभीताय ये ये बद्धाः कर्मबंधनैः
श्रुतिस्मृतिविहीना ये शौचाचारविवर्जिताः
ये च योगपरिभ्रष्टास्तपो दान विवर्जिताः 4.1.32.
मध्ये बंधुजने येषामपमानं पदे पदे
आनंदकानने येषां रुचिर्वै वसतां सताम्
भर्ज्यते कर्मबीजानि यत्र विश्वेशवह्निना
हरिकेशो विचार्येति यातो वाराणसीं पुरीम्
पुनर्नो तनुसंबंधस्तनुद्वेषिप्रसादतः
अथ कालांतरे शंभुः प्रविश्यानंदकानमम्
अमंदामोदमंदारं कोविदारपरिष्कृतम्