प्रलपंतमिव प्रोच्चैः प्रियं कनककुंडला
अत्रोपायोऽस्त्यपत्याप्त्यै विस्रब्धमवधारय
किमुद्यमवतां पुंसां दुर्लभं हि चराचरे 4.1.32.
दैवं हेतुं वदंत्येवं भृशं कापुरुषाः पते
ततः पौरुषमालंब्य तत्कर्म परिशांतये
अपत्यं द्रविणं दारा हारा हर्म्य हया गजाः
विधातुः शांभवीं भक्तिं प्रिय सर्वे मनोरथाः
नारायणोपि भगवानंतरात्मा जगत्पतिः
ब्रह्मणः सृष्टिकर्त्तृत्वं दत्तं तेनैव शंभुना
मृत्युंजयं सुतं लेभे शिलादोप्यनपत्यवान्
क्षीरार्णवाधिपतितामुपमन्युरवाप्तवान्
जिगाय शार्ङ्गिणं संख्ये दधीचिः शंभुसेवया
मनोरथपथातीतं यच्च वाचामगोचरम् 4.1.32.
अनाराध्य महेशानं सर्वदं सर्वदेहिनाम्
तस्मात्सर्वप्रयत्नेन शंकरं शरणं व्रज
इति श्रुत्वा वचः पत्न्याः पूर्णभद्रः स यक्षराट्
दिनैः कतिपयैरेव परिपूर्णमनोरथः
नादेश्वरं समभ्यर्च्य कैः कैर्नापि स्वचिंतितम्
अंतर्वत्न्यथ कालेन तत्पत्नी सुषुवे सुतम्
प्रीतिदायं ददौ चाथ भूरिपुत्राननेक्षणात्
बालोऽपि पूर्णचंद्राभ वदनो मदनोपमः
यदाष्टवर्षदेशीयो हरिकेशोऽभवच्छिशुः
पांसुक्रीडनसक्तोपि कुर्याल्लिंगं रजोमयम् 4.1.32.
आकारयति मित्राणि शिवनाम्नाऽखिलानि सः
धूर्जटे खंडपरशो मृडानीश त्रिलोचन
श्रीकंठनीलकंठेश स्मरारे पार्वतीपते
अजिनांबरदिग्वासः स्वर्धुनी क्लिन्नमौलिज
सवयस्कानिति मुहुः समाह्वयति लालयन्
पद्भ्यां न पद्यते चान्यदृते भूतेश्वराजिरात्
रसयेत्तस्य रसना हरनामाक्षरामृतम्