पूर्णभद्रं सुतं प्राप्य सोऽभूत्पूर्णमनोरथः
शांभवेनाथ योगेन देहमुत्सृज्य पार्थिवम्
पितर्युपरतेसोऽथ पूर्णभद्रो महायशाः 4.1.32.
सर्वान्मनोरथाँल्लेभे विना स्वर्गैकसाधनम्
संसारतापसंतप्तावयवामृतसीकरम्
पूर्णभद्रोऽथ संवीक्ष्य मंदिरं सर्वसुंदरम्
शून्यं दरिद्रहृदिव जीर्णारण्यमिवाथवा
आहूय गृहिणी सोऽथ यक्षः कनककुंडलाम्
न हर्म्यं सुखदं कांते दर्पणोदरसुंदरम्
पद्मरागेंद्रनीलार्चिरर्चिताट्टालकं क्वणत्
प्रेंखत्पताकानिकरं मणिमाणिक्यमालितम्
अनर्घ्यासनसंयुक्तं चारुपर्यंकभूषितम्
सुरम्यरतिशालाढ्यं वाजिराजिविराजितम् 4.1.32.
नूपुरारावसोत्कंठ केकिकेकारवाकुलम्
खेलन्मरालयुगलं जीवं जीवककांतिमत्
कर्पूरैण मदामोद सोदरानिलवीजितम्
दाडिमीबीजसंभ्रांतशुकतुंडात्तमौक्तिकम्
कमलामोदगर्भं च गर्भरूपं विना प्रिये
यद्युपायोऽस्ति तद्ब्रूहि धिगपुत्रस्य जीवितम्
धिगेतत्सौधसौंदर्यं धिगेतद्धनसंचयम्
प्रलपंतमिव प्रोच्चैः प्रियं कनककुंडला
अत्रोपायोऽस्त्यपत्याप्त्यै विस्रब्धमवधारय
किमुद्यमवतां पुंसां दुर्लभं हि चराचरे 4.1.32.
दैवं हेतुं वदंत्येवं भृशं कापुरुषाः पते
ततः पौरुषमालंब्य तत्कर्म परिशांतये
अपत्यं द्रविणं दारा हारा हर्म्य हया गजाः
विधातुः शांभवीं भक्तिं प्रिय सर्वे मनोरथाः
नारायणोपि भगवानंतरात्मा जगत्पतिः
ब्रह्मणः सृष्टिकर्त्तृत्वं दत्तं तेनैव शंभुना
मृत्युंजयं सुतं लेभे शिलादोप्यनपत्यवान्