क्रीडेयं तव देवेश त्रिलोचन महामते
किमर्थं भगवत्र्छंभो भिक्षां चरसि शक्तिप
एवमुक्तस्ततः शंभुर्विष्णुमेतदुदाहरत्
तदघप्रतिघं विष्णो चराम्येतद्व्रतं शुभम्
स्मित्वा किंचिन्नतशिराः पुनरेवं व्यजिज्ञपत्
मायया मां महादेव नच्छादयितुमर्हसि
कल्पे कल्पे सृजामीश त्वन्नियोगबलाद्विभो
मदाद्यो महादेव मायया तव मोहिताः
संहारकाले संप्राप्ते सदेवानखिलान्मुनीन् 4.1.31.
तदा क्व ते महादेव पाप ब्रह्मवधादिकम्
अतीतब्रह्मणामस्थ्नां स्रक्कंठे तव भासते
कृत्वापि सुमहत्पापं त्वां यः स्मरति भावतः
यथा तमो न तिष्ठेत संनिधावंशुमालिनः
यश्चिंतयति पुण्यात्मा तव पादांबुजद्वयम्
तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते
रजसा तमसा विवर्धितं क्व नु पापं परितापदायकम्
यदि जातुचिदंधकद्विषस्तवनामौष्ठपुटाद्विनिःसृतम्
परमात्मन्परंधाम स्वेच्छा विधृत विग्रह
अद्य धन्योस्मि देवेश यं न पश्यति योगिनः 4.1.31.
अवियोगोऽस्तु मे देव त्वदंघ्रियुगलेन वै 4.1.31.
ब्रह्महत्यादि पापानि यस्या नाम्नोपि कीर्तनात् 4.1.31.
महाश्मशानमासाद्य यदि देवाद्विपद्यते 4.1.31.
तीर्थे कालोदके स्नात्वा कृत्वा तर्पणमत्वरः 4.1.31.
कोसौ कस्य सुतः श्रीमान्कीदृगस्य तपो महत्
कथं च देवदेवस्य प्रियत्वं समुपेयिवान्
एतदिच्छाम्यहं श्रोतुं प्रसादं कुरु मे विभो
संभ्रमो विभ्रमश्चोभौ कथं तदनुगामिनौ
कुंभसंभव विप्रर्षे दंडपाणि कथानकम्
यदाकर्ण्य नरः प्राज्ञ काशीवासस्य यत्फलम्
रत्नभद्र इति ख्यातः पर्वते गंधमादने