पुरवैरिसपर्यायाः पर्यायकमिदं वनम्
तदेतत्पादसंचारैर्दूषयन्नेष पातकी
अपरोप्ययमत्युग्रे पतत्वचलकंदरे। प्रसूनगंधलोभाद्यो गंधसारंगतां गतः
इति तेनोग्ररोषेण शापवज्रे निपातिते
अभिधाय च तं देवमाहितांघ्रिपरिग्रहैः
अथातिदीनमनसावावामालोक्य पार्थिव
अभाषत च मैवं भो भवतोः क्वापि दुर्धियोः 1.3.2.22.
पुरा खलु पुरारातिरध्यतिष्ठच्छुभां सभाम्
तदा च देवदेवाय नंदनारण्यदेवता
बाल्यात्कुतूहलाक्रान्तौ गजाननषडाननौ
अथ ताववदद्देवस्तनयौ फलतर्षितौ
इमां समस्तां पृथिवीं लोकालोकेन वेष्टिताम्
इत्युक्ते पार्वतीशेन स्मयमानमुखेंदुना
लंबोदरस्तु देवस्य शोणशैलाकृतेः पितुः
तद्दृष्ट्वा तस्य चातुर्यं हेरंबाय त्रियंवकः
अद्यप्रभृति सर्वेषां फलानामधिनायकः
बभाषे च सभास्तारान्सर्वानपि सुरासुरान् 1.3.2.22.
स्थावरोयं ममाकारः शोणाद्रिर्योऽस्य भक्तितः
गिरेः प्रदक्षिणेनास्य यस्य धत्तः पदे रुजम्
इति शासनतः शंभोः शोणशैलप्रदक्षिणम्
युवामपि मदोद्भूतमालिन्यौ शिक्षितौ मया
तिरश्चोरपि वां सिध्येदरुणाद्रेः प्रदक्षिणा
इत्यमर्षणमहर्षिमहाब्धेः शापहालहल शोषितगात्रौ
अयासीदौपवाह्यत्वं भवतो राजपुंगव
अहं च गंधमृगतां गतः स्वांगप्रसूतिना
धर्मात्मन्मृगयाव्याजादागतेन त्वयाधुना
वाहारोहणदोषेण तवासीदीदृशी दशा
राजेंद्र तव संबंधादस्मात्तिर्यक्त्वबंधनात्
इत्युदीर्य निजं धाम यियासंतं कलाधरम्
एवं युवां शोणशैलशंकरस्य प्रभावतः