काशिवासिनिजने वनेचरेद्वित्रिभुज्यपि समीरभोजने
नास्तीह दुष्कृतकृतां सुकृतात्मनां वा काचिद्विशेषगतिरंतकृतां हि काश्याम्
शशका मशका बकाः शुकाः कलविंकाश्च वृकाः सजंबुकाः
अरुद्ररुद्राक्षफणींद्रभूषणास्त्रिपुंड्रचंद्रार्धधराधरागताः
यावंत एव निवसंति च जंतवोऽत्र काश्यां जलस्थलचरा झषजंबुकाद्याः
ये तु वर्षेषवोरुद्रा दिवि देवि प्रकीर्तिताः
रुद्रा दश दश प्राच्यवाची प्रत्यगुदक्स्थिताः
असंख्याताः सहस्राणि ये रुद्रा अधिभूतले 4.1.30.
दैनंदिनेऽथ प्रलये त्रिशूलकोटौ समुत्क्षिप्य पुरीं हरः स्वाम् 4.1.30.
अतः परं कलशज किं शुश्रूषसि तद्वद
न तृप्तिमधिगच्छामि शृण्वन्वाराणसीकथाम्
अनुग्रहो यदि मयि योग्योस्मि श्रवणे यदि
कोसौ भैरवनामात्र काशिपुर्यां व्यवस्थितः
कथमाराधितश्चैव सिद्धिदः साधकस्य वै
तथा न कस्यचिन्मन्ये ततो वक्ष्याम्यशेषतः
प्रादुर्भावं भैरवस्य महापातकनाशनम्
पाणिभ्यां परितः प्रपीड्य सुदृढं निश्चोत्य निश्चोत्य च ब्रह्मांडं सकलं पचेलिमरसालोच्चैः फलाभं मुहुः
कुंभयोने न वेत्त्येव महिमानं महेशितुः
न चित्रमत्र भूदेव भवमाया दुरत्यया
वेदयेद्यदिचात्मानं स एव परमेश्वरः 4.1.31.
स सर्वगोपि नेक्ष्येत स्वात्मारामो महेश्वरः
पुरा पितामहं विप्र मेरुशृंगे महर्षयः
समा यया महेशस्य मोहितो लोकसंभवः
जगद्योनिरहं धाता स्वयंभूरेक ईश्वरः
प्रवर्तको हि जगतामहमेको निवर्तकः
तस्यैवं ब्रुवतो धातुः क्रतुर्नारायणांशजः
अविज्ञाय परं तत्त्वं किमेतत्प्रतिपाद्यते
अहं कर्ता हि लोकानां यज्ञो नारायणः परः
अहमेव परं ज्योतिरहमेव परा गतिः
एवं विप्र कृतौ मोहात्परस्परजयैषिणौ 4.1.31.