किं विस्मृतं त्वहहगर्भजमामनस्यं कार्तांतदूतकृतबंधन ताडनं च
तीर्थांतराणि कलुषाणि हरति सद्यः श्रेयो ददत्यपि बहु त्रिदिवं नयंति
काशीपुरी परिसरे मणिकर्णिकायां त्यक्त्वा तनुं तनुभृतस्तनुमाप्नुवंति
ज्ञात्वा प्रभावमतुलं मणिकर्णिकायां यः पुद्गलं त्यजति चाशुचिपूयगंधि
रागादिदोषपरिपूर मनो हृषीकाः काशीपुरीमतुलदिव्यमहाप्रभावाम्
वाराणसीं स्मरहरप्रियराजधानीं त्यक्त्वा कुतो व्रजसि मूढ दिगंतरेषु
विद्या धनानि सदनानि गजाश्वभृत्याः स्रक्चंदनानि वनिताश्च नितांत रम्याः ।। स्वर्गोप्यगम्य इह नोद्यमभाजिपुंसि वाराणसीत्वसुलभा शलभादिमुक्तिः। धात्रा धृतानि तुलया तुलनामवैतुं वैकुंठमुख्यभुवनानि च काशिका च
काशी पुरीमधिवसन्द्रिनरोनरोपिह्मारोप्यमाणइहमान्यहवैकरुद्रः 4.1.30.
स्थिरापायं कायं जननमरणक्लेशनिलयं विहायास्यां काश्यामहहपरिगृह्णीत न कुतः
अहो लोकः शोकं किमिह सहते हंतहतधीर्विपद्भारैः सारैर्नियतनिधनैर्ध्वसित धनैः
काशिवासिनिजने वनेचरेद्वित्रिभुज्यपि समीरभोजने
नास्तीह दुष्कृतकृतां सुकृतात्मनां वा काचिद्विशेषगतिरंतकृतां हि काश्याम्
शशका मशका बकाः शुकाः कलविंकाश्च वृकाः सजंबुकाः
अरुद्ररुद्राक्षफणींद्रभूषणास्त्रिपुंड्रचंद्रार्धधराधरागताः
यावंत एव निवसंति च जंतवोऽत्र काश्यां जलस्थलचरा झषजंबुकाद्याः
ये तु वर्षेषवोरुद्रा दिवि देवि प्रकीर्तिताः
रुद्रा दश दश प्राच्यवाची प्रत्यगुदक्स्थिताः
असंख्याताः सहस्राणि ये रुद्रा अधिभूतले 4.1.30.
दैनंदिनेऽथ प्रलये त्रिशूलकोटौ समुत्क्षिप्य पुरीं हरः स्वाम् 4.1.30.
अतः परं कलशज किं शुश्रूषसि तद्वद
न तृप्तिमधिगच्छामि शृण्वन्वाराणसीकथाम्
अनुग्रहो यदि मयि योग्योस्मि श्रवणे यदि
कोसौ भैरवनामात्र काशिपुर्यां व्यवस्थितः
कथमाराधितश्चैव सिद्धिदः साधकस्य वै
तथा न कस्यचिन्मन्ये ततो वक्ष्याम्यशेषतः
प्रादुर्भावं भैरवस्य महापातकनाशनम्
पाणिभ्यां परितः प्रपीड्य सुदृढं निश्चोत्य निश्चोत्य च ब्रह्मांडं सकलं पचेलिमरसालोच्चैः फलाभं मुहुः
कुंभयोने न वेत्त्येव महिमानं महेशितुः
न चित्रमत्र भूदेव भवमाया दुरत्यया
वेदयेद्यदिचात्मानं स एव परमेश्वरः 4.1.31.