अकृत्वा जाह्नवीस्नानमनवेक्ष्य जगत्पतिम्
भारवाडप्यरण्यान्यां ताम्रसंपुटमध्यतः।। दृष्ट्वास्थीनि विनिःश्वस्य तानि त्यक्त्वा गृहं ययौ
वणिक्च तद्गृहं प्राप्य शुष्ककंठोष्ठतालुकः
आशया किंचिदाश्वस्य तत्पत्नीं परिपृष्टवान्
वसु क्व ते गतो भर्ता मातुरस्थीनिमेऽर्पय
अज्ञात्वा लोभवशतस्तेन नीतोऽस्थिसंपुटः
अथवा न प्रसू दोषो मंदभाग्योऽस्मि तत्सुतः
उद्यमं कृतवानस्मि न सिद्ध्येन्मंदभाग्यतः
अस्थीनि दर्शयत्वाशु धनं दास्येऽधिकं ततः 4.1.30.
लज्जानम्रशिराःसोऽथ वृत्तांतं विनिवेद्य च
वनेचरोऽथ तत्स्थानं दैवाद्विस्मृतवान्मुने
इतोरण्यात्ततो याति ततोरण्यादितो व्रजेत्
विहाय मध्येऽरण्यानि तं ययौ च स्वपक्कणम्
क्षुत्क्षामः शुष्ककंठोष्ठो हाहेति परिदेवयन् ८
तन्मंदभाग्यतां श्रुत्वा लोकात्कार्पटिको मुने
काश्यां प्रवेशं प्राप्यापि तदस्थीनि घटोद्भव
एवं काश्यां प्रविश्यापि पापी धर्मानुषंगतः
तस्माद्विश्वेश्वराज्ञैव काशीवासेऽत्र कारणम्
वाराणसीति विख्याता तदारभ्य महामुने 4.1.30.
वाराणसीह करुणामयदिव्यमूर्तिरुत्सृज्य यत्र तु तनुं तनुभृत्सुखेन
जातो मृतो बहुषु तीर्थवरेषु रे त्वं जंतो न जातु तव शांतिरभून्निमज्य
अन्यत्र तीर्थ सलिले पतितोद्विजन्मा देवादिभावमयते न तथा तु काश्याम्
नैषा पुरी संसृतिरूपपारावारस्य पारं पुरहा पुरारिः
तीर्थांतराणि मनुजः परितोऽवगाह्य हित्वा तनुं कलुषितां दिवि दैवतं स्यात्
वाराणसी समरसीकरणादृतेपि योगादयोगिजनतां जनतापहंत्री
वाराणसी परिसरे तनुमिष्टदात्रीं धर्मार्थकामनिलयामहहाविसृज्य
आःकाशिवासिजनता ननु वंचिताभूद्भाले विलोचनवतावनितार्धभाजा
वाराणसी स्फुरदसीमगुणैकभूमिर्यत्र स्थितास्तनुभृतःशशिभृत्प्रभावात्
आनंदकाननमिदं सुखदं पुरैव तत्त्रापि चक्रसरसी मणिकर्णिकाऽथ 4.1.30.
वाराणसीह वरणासि सरिद्वरिष्ठा संभेदखेदजननी द्युनदी लसच्छ्रीः