एकदा तु सुवर्णाद्रेः पार्श्वे दुर्वाससो मुनेः
क्रोशेद्धां तपसस्तस्य शिवाराधनसाधनीम्
विनीतावप्यसंजातौ तत्त्वोचितसुधीगणौ
स्थलस्य तस्य सौहार्दात्कांतिशाल्यतिगर्वितः
अहं तु तत्र पुष्पाणां गंधातिशयमोहितः
ततः शांडिल्यमूलस्थो व्याघ्रचर्मासने स्थितः
अमर्षोत्कर्षनीरंध्रस्पंदमानाधरच्छदः 1.3.2.22.
सरोषोऽभूत्तेजसाढ्यो घर्मदंतुरविग्रहः
आः पापौ प्रच्युताचारौ कौ युवामतिगर्वितौ
तपोवनमिदं मत्कं पावनं भूतभावनम्
पुरवैरिसपर्यायाः पर्यायकमिदं वनम्
तदेतत्पादसंचारैर्दूषयन्नेष पातकी
अपरोप्ययमत्युग्रे पतत्वचलकंदरे। प्रसूनगंधलोभाद्यो गंधसारंगतां गतः
इति तेनोग्ररोषेण शापवज्रे निपातिते
अभिधाय च तं देवमाहितांघ्रिपरिग्रहैः
अथातिदीनमनसावावामालोक्य पार्थिव
अभाषत च मैवं भो भवतोः क्वापि दुर्धियोः 1.3.2.22.
पुरा खलु पुरारातिरध्यतिष्ठच्छुभां सभाम्
तदा च देवदेवाय नंदनारण्यदेवता
बाल्यात्कुतूहलाक्रान्तौ गजाननषडाननौ
अथ ताववदद्देवस्तनयौ फलतर्षितौ
इमां समस्तां पृथिवीं लोकालोकेन वेष्टिताम्
इत्युक्ते पार्वतीशेन स्मयमानमुखेंदुना
लंबोदरस्तु देवस्य शोणशैलाकृतेः पितुः
तद्दृष्ट्वा तस्य चातुर्यं हेरंबाय त्रियंवकः
अद्यप्रभृति सर्वेषां फलानामधिनायकः
बभाषे च सभास्तारान्सर्वानपि सुरासुरान् 1.3.2.22.
स्थावरोयं ममाकारः शोणाद्रिर्योऽस्य भक्तितः
गिरेः प्रदक्षिणेनास्य यस्य धत्तः पदे रुजम्
इति शासनतः शंभोः शोणशैलप्रदक्षिणम्