स्वयं व्यापारयामास रक्षार्थं शशिशेखरः
ते प्रवेशं प्रयच्छंति नान्येषां हि कदाचन आश्चर्यकारिपरमं काशीभक्तिप्रवर्धनम्
वणिग्धनंजयो नाम मातृभक्तिसमन्वितः
पुण्यमार्गार्जित धनो धनतोषितमार्गणः
समुन्नतोपि संपत्त्या विनयानतकंधरः
रूपसंपदुदारोपि परदारपराङ्मुखः
ससत्यानृतवृत्तिश्च प्रायः सत्यप्रियो मुने
सदाचरणगोप्येष सुखयानचरः कृती
तस्यैवं वर्तमानस्य कदाचित्कालपर्ययात् 4.1.30.
तया च यौवनं प्राप्य मेघच्छायातिचंचलम्
दिन त्रिचतुरस्थायि या नारी प्राप्य यौवनम्
शीलभंगेन नारीणां भर्ताधर्मपरोपि हि
विष्ठागर्ते च निरये स्वयं पतति दुर्मतिः
स्वविष्ठापायिनी चाथ वल्गुली वृक्षलंबिनी
रक्षणीयं महायत्नादिदं सुकृतभाजनम्
अनेनैव शरीरेण भर्तृसाद्विहितेन हि
अत्रिपत्न्यनसूया किं भर्तृभक्तिप्रभावतः
इह कीर्तिश्च विपुला स्वर्गेवासस्तथाऽक्षयः
सादुर्वृत्त्या परित्यज्य पतिधर्मं सनातनम् 4.1.30.
धनंजयोपि च मुने केनचिच्छिवयोगिना
धनंजयोपि धर्मात्मा मातृभक्तिपरायणः
पंचगव्येन संस्नाप्य ततः पंचामृतेन वै
आवेष्ट्य नेत्रवस्त्रेण ततः पट्टांबरेण वै
नेपालकंबलेनाथ मृदाचाऽथ विशुद्धया
अस्पृष्टहीनजातिः स शुचिष्मान्स्थंडिलेशयः
भारवाहः कृतस्तेन कश्चिद्दत्त्वोचितां भृतिम्
धृत्वा संभृतिरक्षार्थं भारवाहं धनंजयः
भारवाह्यंतरं प्राप्य तस्य संभृतिमध्यतः
वासस्थानमथागत्य तमदृष्ट्वा धनंजयः 4.1.30.
हाहेत्याताड्य हृदयं चक्रंद बहुशो भृशम्