विना सांख्येन योगेन काश्यां संस्थोऽमृतो भवेत्
शशिमौलिप्रसादेन काशीसंस्थोऽमृतो भवेत्
तारकस्योपदेशेन काशीसंस्थोऽमृतो भवेत्
असिसंभेद योगेन काशीसंस्थोऽमृतो भवेत्
देहत्यागोऽत्र वै योगः काश्यां निर्वाणसौख्यकृत्
यायात्स्वं हेलया त्यक्त्वा तद्विष्णोः परमं पदम्
सर्वान्सर्वे समालोक्य रक्षां चक्रुः पुरापुरः
दुष्टप्रवेशं धुन्वानां धुनीं देवा विनिर्ममुः
दुर्वृत्तसुप्रवृत्तेश्च निवृत्तिकरणीं सुराः 4.1.30.
क्षेत्रस्य मोक्षनिक्षेप रक्षां निर्वृतिमाप्नुयुः
स्वयं व्यापारयामास रक्षार्थं शशिशेखरः
ते प्रवेशं प्रयच्छंति नान्येषां हि कदाचन आश्चर्यकारिपरमं काशीभक्तिप्रवर्धनम्
वणिग्धनंजयो नाम मातृभक्तिसमन्वितः
पुण्यमार्गार्जित धनो धनतोषितमार्गणः
समुन्नतोपि संपत्त्या विनयानतकंधरः
रूपसंपदुदारोपि परदारपराङ्मुखः
ससत्यानृतवृत्तिश्च प्रायः सत्यप्रियो मुने
सदाचरणगोप्येष सुखयानचरः कृती
तस्यैवं वर्तमानस्य कदाचित्कालपर्ययात् 4.1.30.
तया च यौवनं प्राप्य मेघच्छायातिचंचलम्
दिन त्रिचतुरस्थायि या नारी प्राप्य यौवनम्
शीलभंगेन नारीणां भर्ताधर्मपरोपि हि
विष्ठागर्ते च निरये स्वयं पतति दुर्मतिः
स्वविष्ठापायिनी चाथ वल्गुली वृक्षलंबिनी
रक्षणीयं महायत्नादिदं सुकृतभाजनम्
अनेनैव शरीरेण भर्तृसाद्विहितेन हि
अत्रिपत्न्यनसूया किं भर्तृभक्तिप्रभावतः
इह कीर्तिश्च विपुला स्वर्गेवासस्तथाऽक्षयः
सादुर्वृत्त्या परित्यज्य पतिधर्मं सनातनम् 4.1.30.
धनंजयोपि च मुने केनचिच्छिवयोगिना