ध्यातृपापहरा ध्येया धावनी धूतकल्मषा
धर्माधर्मगुणच्छेत्त्री धत्तूरकुसुमप्रिया
धर्मलभ्या धर्मजला धर्मप्रसवधर्मिणी
? धूर्धूर्जटिजटासंस्था धन्या धीर्धारणावती
निषिद्धविघ्ननिचया निजानंदप्रकाशिनी
निर्मला निर्मलाख्याना नाशिनीतापसंपदाम्
नदीनदसरोमाता नायिका नाकदीर्घिका
निर्णिक्ताशेषभुवना निःसंगा निरुपद्रवा 4.1.29.
परमैश्वर्यजननी प्रज्ञा प्राज्ञा परापरा 4.1.29.
विद्याधरी विशोका च वयोवृंदनिषेविता 4.1.29.
भवप्रिया भवद्वेष्टी भूतिदा भूतिभूषणा 4.1.29.
मालाधरी महोपाया महोरगविभूषणा 4.1.29.
रागिणीरंजितशिवा रूपलावण्यशेवधिः 4.1.29.
श्मशानशोधनी शांता शश्वच्छतधृतिष्टुता 4.1.29.
श्रद्धयाभीष्टफलदं चतुर्वर्गसमृद्धिकृत् 4.1.29.
जन्मांतर सहस्रेषु यत्पापं सम्यगर्जितम् 4.1.29.
गुरुशुश्रूषणं कुर्वन्यावज्जीवं नरोत्तमः 4.1.29.
दिव्याभरणसंपन्नो दिव्यभोगसमन्वितः 4.1.29.
गंगास्नानप्रतिनिधिः स्तोत्रमेतन्मयेरितम्
आराध्य श्रीमहादेवमुद्दिधीर्षुः पितामहान्
ब्रह्मशाप विनिर्दग्धान्सर्वान्राजर्षिसत्तमः
त्रयाणामपि लोकानां हिताय महते नृपः
आनंदकाननं शंभोश्चक्रपुष्करिणी हरेः
प्रापयामास तां गंगां दैलीपिः पुरतश्चरन्
अविमुक्तं महाक्षेत्रं न मुक्तं शंभुना क्वचित
पुनर्वारितरेणापि हीरेणयदि संगतम्
ततः श्रेष्ठतरं शंभोर्मणिश्रवणभूषणात्
प्रागेव मुक्तिः संसिद्धा गंगासंगात्ततोधिका
तदाप्रभृति तत्क्षेत्रं दुष्प्रापं त्रिदशैरपि 4.1.30.
तानि क्षणात्समुत्क्षिप्य काशीसंस्थोऽमृतोभवेत्