कथनीयं न चान्यस्य कस्यचित्केनचित्क्वचित्
महाश्रेयस्करं पुण्यं मनोरथकरं परम्
नाम्नां सहस्रगंगायाः स्तवराजेषुशो भनम्
जपनीयं प्रयन्नेन मौनिना वाचकं विना
स्कंद उवाच ॐनमो गंगादेव्यै अत्युदाराऽभयाऽशोकाऽलकनंदाऽमृताऽमला
अनाथवत्सलाऽमोघाऽपांयोनिरमृतप्रदा
अनाथनाथाऽभीष्टार्थसिद्धिदाऽनंगवर्धिनी
अचिंत्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी 4.1.29.
अक्षुण्णशक्तिरसुदाऽनंततीर्थाऽमृतोदका
अशेषदेवतामूर्तिरघोराऽमृतरूपिणी
अशेषविघ्नसंहर्त्री त्वशेषगुणगुंफिता
अभिरामाऽनवद्यांग्यनंतसाराऽकलंकिनी
आश्चर्यमूर्तिरायुष्या ह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता
आलस्यघ्न्यापदां हंत्री ह्यानंदामृतवर्षिणी
इतिहासश्रुतीड्यार्था त्विहामुत्रशुभप्रदा इज्याशीलसमिज्येष्ठा त्विंद्रादिपरिवंदिता
इलालंकारमालेद्धा त्विंदिरारम्यमंदिरा
ईतिभीतिहरेड्या च त्वीडनीय चरित्रभृत्
उदितांबरमार्गोस्रोरगलोकविहारिणी 4.1.29.
उदन्वत्पूर्तिहेतुश्चोदारोत्साहप्रवर्धिनी
उत्पत्ति स्थिति संहारकारिण्युपरिचारिणी
ऊर्ध्वरेतःप्रियोर्ध्वाध्वा ह्यूर्मिलोर्ध्वगतिप्रदा
ऋतंभरर्द्धिदात्री च ऋक्स्वरूपा ऋजुप्रिया
एधिताऽखिलधर्मार्थात्वेकैकामृतदायिनी
ऐश्वर्यदैश्वर्यरूपा ह्यैतिह्यं ह्यैंदवी द्युतिः
ओष्ठामृतौन्नत्यदात्री त्वौषधं भवरोगिणाम्
अंबराध्ववहांऽवष्ठां वरमालांबुजेक्षणा
अंशुमालाह्यंशुमती त्वंगीकृतषडानना
कल्याणकारिणी काम्या कमलोत्पलगंधिनी 4.1.29.
कांचनाक्षी कामधेनुः कीर्तिकृत्क्लेशनाशिनी
कमलाक्षी क्लमहरा कृशानुतपनद्युतिः