दानं वाऽथ व्रतंवाऽथ मंत्रःस्तोत्रजपोऽथवा
यद्यस्तिकिंचित्षड्वक्त्र गंगास्नानफलप्रदम्
त्वत्तो न वेदस्कंदान्यो गंगागर्भ समुद्भव
स्थाने स्थाने च तीर्थानि जितात्माध्युषितानि च
दृष्टप्रत्ययकारीणि महामहिम भांज्यपि
अनेनैवानुमानेन बुद्ध्यस्व कलशोद्भव
स्नानकालेऽन्य तीर्थेषु जप्यते जाह्नवी जनैः
गंगास्नानफलं ब्रह्मन्गंगायामेव लभ्यते 4.1.29.
अस्त्युपाय इह त्वेकः स्याद्येनाविकलं फलम्
शिवभक्ताय शांताय विष्णुभक्तिपराय च
कथनीयं न चान्यस्य कस्यचित्केनचित्क्वचित्
महाश्रेयस्करं पुण्यं मनोरथकरं परम्
नाम्नां सहस्रगंगायाः स्तवराजेषुशो भनम्
जपनीयं प्रयन्नेन मौनिना वाचकं विना
स्कंद उवाच ॐनमो गंगादेव्यै अत्युदाराऽभयाऽशोकाऽलकनंदाऽमृताऽमला
अनाथवत्सलाऽमोघाऽपांयोनिरमृतप्रदा
अनाथनाथाऽभीष्टार्थसिद्धिदाऽनंगवर्धिनी
अचिंत्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी 4.1.29.
अक्षुण्णशक्तिरसुदाऽनंततीर्थाऽमृतोदका
अशेषदेवतामूर्तिरघोराऽमृतरूपिणी
अशेषविघ्नसंहर्त्री त्वशेषगुणगुंफिता
अभिरामाऽनवद्यांग्यनंतसाराऽकलंकिनी
आश्चर्यमूर्तिरायुष्या ह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता
आलस्यघ्न्यापदां हंत्री ह्यानंदामृतवर्षिणी
इतिहासश्रुतीड्यार्था त्विहामुत्रशुभप्रदा इज्याशीलसमिज्येष्ठा त्विंद्रादिपरिवंदिता
इलालंकारमालेद्धा त्विंदिरारम्यमंदिरा
ईतिभीतिहरेड्या च त्वीडनीय चरित्रभृत्
उदितांबरमार्गोस्रोरगलोकविहारिणी 4.1.29.
उदन्वत्पूर्तिहेतुश्चोदारोत्साहप्रवर्धिनी
उत्पत्ति स्थिति संहारकारिण्युपरिचारिणी