यथान्याः सरितो लोके वारिपूर्णाः सहस्रशः
श्रुत्यक्षराणि निश्चित्य कारुण्याच्छंभुना मुने
योगोपनिषदामेतं सारमाकृष्य शंकरः
अकलानिधयो रात्र्यो विपुष्पाश्चैव पादपाः
अनयाः संपदो यद्वन्मखा यद्वददक्षिणाः 4.1.28.
व्योमांगणमनर्कं च नक्तेऽदीपं यथा गृहम
चांद्रायणसहस्रं तु यः कुर्याद्देहशोधनम्
पादेनैकेन यस्तिष्ठेत्सहस्रं शरदां शतम्
अवाक्छिराः प्रलंबेद्यः शतसंवत्सरान्नरः
पापतापाभितप्तानां भूतानामिह जाह्ववी
तार्क्ष्यवीक्षणमात्रेण फणिनौ निर्विषा यथा
गंगातटोद्भवां मृत्स्नां यो मौलौ बिभृयान्नरः
व्यसनैरभिभूतस्य धनहीनस्य पापिनः
श्रुताभिलषिता दृष्टा स्पृष्टा पीताऽवगाहिता
कीर्तनाद्दर्शनात्स्पर्शाद्गंगापानावगाहनात् 4.1.28.
ब्रह्मलोकस्तु लोकानां सर्वेषामुत्तमो यथा 4.1.28.
ज्ञात्वाज्ञात्वा च गंगायां यः पंचत्वमवाप्नुयात् 4.1.28.
यावंति तस्या लोमानि मुने तत्संततेरपि
उपायांतरमस्त्यन्यद्येन स्नानफलं लभेत्
अशक्तानां च पंगूनामालस्योपहतात्मनाम्
दानं वाऽथ व्रतंवाऽथ मंत्रःस्तोत्रजपोऽथवा
यद्यस्तिकिंचित्षड्वक्त्र गंगास्नानफलप्रदम्
त्वत्तो न वेदस्कंदान्यो गंगागर्भ समुद्भव
स्थाने स्थाने च तीर्थानि जितात्माध्युषितानि च
दृष्टप्रत्ययकारीणि महामहिम भांज्यपि
अनेनैवानुमानेन बुद्ध्यस्व कलशोद्भव
स्नानकालेऽन्य तीर्थेषु जप्यते जाह्नवी जनैः
गंगास्नानफलं ब्रह्मन्गंगायामेव लभ्यते 4.1.29.
अस्त्युपाय इह त्वेकः स्याद्येनाविकलं फलम्
शिवभक्ताय शांताय विष्णुभक्तिपराय च