जनकः शुभतिथ्यादौ विदेशगमनापहम्
सर्वदा मिष्टमश्नाति कर्मणा येन भास्करे
कर्मणा येन केशाः स्युः स्निग्धाः कुसुमवर्षिणः
सुवर्णग्राहिणौ येन कर्णौ स्यातां च सुश्रुती ब्रह्मचर्याभिवृद्ध्यै यो ब्रह्मग्रहणहेतुकः
मौंजीमोक्षणवार्तापि कृता नास्य जनुःकृता
यथाकथंचिदूढाऽथ पत्नी त्यक्तकुलाध्वगा
आरभ्य पंचमाद्वर्षात्परस्वस्यापहारकः 4.1.28.
रुमायां1 वसताऽनेन हतागौरेकवार्षिकी
जननीं पादपातेन बहुशोऽसावताडयत्
धत्तूरकरवीरादि बहुधोपविषाणि च
दग्धोसावग्निना सौरे श्वभिश्च कवलीकृतः
दंदशूकैर्भृशं दष्टो दुष्टः शिष्टैर्विगर्हितः
आस्फालितं शिरोनेनासकृच्चापि दुरात्मना
असौ हि ब्राह्मणो मंदो गायत्रीमपिवेदन
आत्मार्थं पायसमसौ पर्यपाक्षीदनेकधा
विषलोहायुधानां च दासीगोवाजिनामपि 4.1.28.
शूद्रान्न परिपुष्टांगः पर्वण्यहनि मैथुनी
पक्षिणो घातितानेन मृगाश्चापि परः शतम्
अदत्तदानः पिशुनः शिश्नोदरपरायणः
रौरवेप्यंधतामिस्रे कुंभीपाकेऽतिरौरवे
असिपत्रवने घोरे यंत्रपीडे सुदंष्ट्रके
सूचीभेद्येऽथ संदंशे लालापे क्षुरधारके
धर्मराजः समाकर्ण्य चित्रगुप्तमुखादिति
भ्रू संज्ञया हृतैर्नीतः स बद्ध्वा निरयालयम्
तत्कालपुण्यफलदे गाङ्गेयांभसि निर्मले ।। 4.1.28.
पतितं तद्धि गृध्रास्याद्वाहीकस्य द्विजन्मनः
घंटावलंबितं दिव्यं दिव्यस्त्रीशतसंकुलम्
वीज्यमानोऽप्सरोवृंदैर्दिव्यगंधानुलेपनः
स्कंद उवाच वस्तुशक्तिविचारोयमद्भुतः कोपि कुंभज
करुणामृतपूर्णेन देवदेवेन शंभुना