चरमेपि वयोभागे स्वःसिंधुं यो निषेवते
यावदस्थि मनुष्याणां गंगातोयेषु तिष्ठति
विष्णुरुवाच देवदेवजगन्नाथ जगतां हितकृत्प्रभो
जले द्युनद्या निष्पापे कथं तस्य परा गतिः
शृणुष्वैकमना विष्णो वाहीकस्य द्विजन्मनः
पुरा कलिंगविषये द्विजो लवणविक्रयी
वाहीको नामतो यज्ञसूत्रमात्रपरिग्रहः 4.1.28.
दुर्भिक्षपीडितेनाथ वृषलीपतिना विना
मध्येऽथ दंडकारण्यं क्षुत्क्षामः संगवर्जितः
तस्य वामपदं गृध्रो गृहीत्वोदपतत्ततः
गृध्रयोरामिषं गृध्न्वोः परस्परजयैषिणोः
तस्य वाहीक विप्रस्य व्याघ्रव्यापादितस्य ह
यदैव हतवान्द्वीपी तं वाहीकमरण्यगम्
कशाभिर्घातितोत्यंतमाराभिः परितोदितः
आपृच्छि धर्मराजेन चित्रगुप्तोथ मापते
वैवस्वतेन पृष्टोथ चित्रगुप्तो विचित्रधीः
जगाद यमुनाबंधुं वाहीकस्य द्विजन्मनः 4.1.28.
चित्रगुप्त उवाच गर्भाधानादिकं कर्म प्राक्कृतं नास्य केनचित्
गर्भैनः शमने हेतुः समस्तायुः सुखप्रदम्
ख्यातः स्याद्येन विधिना सर्वत्र विधिपावनम्
जनकः शुभतिथ्यादौ विदेशगमनापहम्
सर्वदा मिष्टमश्नाति कर्मणा येन भास्करे
कर्मणा येन केशाः स्युः स्निग्धाः कुसुमवर्षिणः
सुवर्णग्राहिणौ येन कर्णौ स्यातां च सुश्रुती ब्रह्मचर्याभिवृद्ध्यै यो ब्रह्मग्रहणहेतुकः
मौंजीमोक्षणवार्तापि कृता नास्य जनुःकृता
यथाकथंचिदूढाऽथ पत्नी त्यक्तकुलाध्वगा
आरभ्य पंचमाद्वर्षात्परस्वस्यापहारकः 4.1.28.
रुमायां1 वसताऽनेन हतागौरेकवार्षिकी
जननीं पादपातेन बहुशोऽसावताडयत्
धत्तूरकरवीरादि बहुधोपविषाणि च