असिपत्रवने ये च कुंभीपाके च ये गताः
जात्यंतरसहस्रेषु भ्राम्यंते ये स्वकर्मभिः
योनिं गतास्त्वसंख्याताः संख्यातानामशोभनाः
येऽबांधवा बांधवा वा येऽन्यजन्मनि बांधवाः
विषेण च मृता वै ये ये वै शृंगिभिराहताः
स्त्री बालघातका ये च ये च विश्वासघातकाः
अश्वविक्रयिणो ये च परद्रव्यहराश्च ये 4.1.28.
तर्पिता जाह्नवीतोयैर्नरेण विधिना सकृत्
एतान्मंत्रान्समुच्चार्य यः कुर्यात्पितृतर्पणम्
कामप्रदानि तीर्थानि त्रैलोक्ये यानि कानिचित्
स्वःसिंधुः सर्वतः पुण्या ब्रह्महत्यापहारिणी
गायंति गाथामेतां वै दैवर्षिपितरोगणाः
यत्रत्यामृतसंतृप्तास्तापत्रितयवर्जिताः
गंगैव केवला मुक्त्यै निर्णीता परितो हरे
ज्ञात्वा कलियुगं घोरं गंगाभक्तिः सुगोपिता
अनेकजन्मनियुतं भ्राम्यमाणस्तु योनिषु
नराणामल्पबुद्धीनामेनो विक्षिप्तचेतसाम् 4.1.28.
खंडस्फुटितसंस्कारं गंगातीरे करोति यः
गंतुमुद्दिश्य यो गंगां परार्थस्वार्थमेव वा
सर्वाणि येषां गांगेयैस्तोयैः कृत्यानि देहिनाम्
चरमेपि वयोभागे स्वःसिंधुं यो निषेवते
यावदस्थि मनुष्याणां गंगातोयेषु तिष्ठति
विष्णुरुवाच देवदेवजगन्नाथ जगतां हितकृत्प्रभो
जले द्युनद्या निष्पापे कथं तस्य परा गतिः
शृणुष्वैकमना विष्णो वाहीकस्य द्विजन्मनः
पुरा कलिंगविषये द्विजो लवणविक्रयी
वाहीको नामतो यज्ञसूत्रमात्रपरिग्रहः 4.1.28.
दुर्भिक्षपीडितेनाथ वृषलीपतिना विना
मध्येऽथ दंडकारण्यं क्षुत्क्षामः संगवर्जितः
तस्य वामपदं गृध्रो गृहीत्वोदपतत्ततः