ब्रह्मांडांतरसंस्थेषु भुंजन्भोगान्मनोरमान्
चंद्रसूर्यग्रहे लक्षं व्यतीपातेत्वनंतकम् 4.1.27.
स्वाहांतः प्रणावादिश्च भवेद्विंशाक्षरो मनुः 4.1.27.
यथाशक्ति स्वर्णरूप्य ताम्रपृष्ठविनिर्मितान् 4.1.27.
संसारविषनाशिन्यै जीवनायै नमोस्तु ते 4.1.27.
प्रणतार्ति प्रभंजिन्यै जगन्मात्रे नमोस्तुते 4.1.27.
तस्यां दशम्यामेतच्च स्तोत्रं गंगाजले स्थितः 4.1.27.
उमोवाच किंचित्प्रष्टुमना नाथ स्वसंदेहापनुत्तये
तदा भगीरथो राजा क्व क्व भागीरथी तदा
श्रुतौ स्मृतौ पुराणेषु कालत्रयमुदीर्यते
भूतं भावि भवच्चापि संशयं मा वृथा कृथाः
पार्वतीनंदन पुनर्द्युनद्याः परितो वद
स्कंद उवाच शुणु त्रिपथगामिन्या माहात्म्यं पातकापहम्
त्रिस्रोतसं समासाद्य सकृत्पिंडान्ददाति यः
यावंतश्च तिला मर्त्यैर्गृहीता पितृकर्मणि
देवाः सपितरो यस्माद्गंगायां सर्वदा स्थिताः
पितृवंशे मृता ये च मातृवंशे तथैव च 4.1.28.
अजातदंता ये केचिद्ये च गर्भे प्रपीडिताः
उद्बंधन मृता ये च पतिता आत्मघातकाः
रसविक्रयिणो ये च ये चान्ये पापरोगिणः
असिपत्रवने ये च कुंभीपाके च ये गताः
जात्यंतरसहस्रेषु भ्राम्यंते ये स्वकर्मभिः
योनिं गतास्त्वसंख्याताः संख्यातानामशोभनाः
येऽबांधवा बांधवा वा येऽन्यजन्मनि बांधवाः
विषेण च मृता वै ये ये वै शृंगिभिराहताः
स्त्री बालघातका ये च ये च विश्वासघातकाः
अश्वविक्रयिणो ये च परद्रव्यहराश्च ये 4.1.28.
तर्पिता जाह्नवीतोयैर्नरेण विधिना सकृत्
एतान्मंत्रान्समुच्चार्य यः कुर्यात्पितृतर्पणम्
कामप्रदानि तीर्थानि त्रैलोक्ये यानि कानिचित्