क्रोधेन च तपो यद्वत्कामेन च यथा मतिः
दंभ कौटिल्य मायाभिर्यथाधर्मो विनश्यति
मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचंचलम्
विधूतपापा ये मर्त्याः परं ज्योतिःस्वरूपिणीम्
साधारणांभसा पूर्णां साधारण नदीमिव
संसारमोचकश्चाहं जनानामनुकंपया
सर्व एव शुभः कालः सर्वो देशस्तथा शुभः
यथाश्वमेधो यज्ञानां नगानां हिमवान्यथा 4.1.27.
प्राणायामश्च तपसां मंत्राणां प्रणवो यथा
यथात्मविद्या विद्यानां स्त्रीणां गौरी यथोत्तमा
सर्वषामेव पात्राणां शिवभक्तो यथा वरः
हरेयश्चावयोर्भेदं न करोति महामतिः
पापपांसुमहावात्या पापद्रुमकुठारिका
नानारूपाश्च पितरो गाथा गायंति सर्वदा
देवर्षीन्परिसंतर्प्य दीनानाथांश्च दुःखितान्
अपि नः स कुले भूयाच्छिवे विष्णौ च साम्यदृक्
अकामो वा सकामो वा तिर्यग्योनिगतोपि वा
तीर्थमन्यत्प्रशंसंति गंगातीरे स्थिताश्च ये 4.1.27.
मां च त्वां चैव यो द्वेष्टि गंगां च पुरुषाधमः
षष्टिर्गणसहस्राणि गंगां रक्षंति सर्वदा
कामक्रोधमहामोहलोभादि निशितैः शरैः
गंगां समाश्रयेद्यस्तु स मुनिः स च पंडितः
गंगायां च सकृत्स्नातो हयमेधफलं लभेत्
नैरंतर्येण गंगायां मासं यः स्नाति पुण्यवान्
अब्दं यः स्नाति गंगायां नैरंतर्येण पुण्यभाक्
गंगायां स्नाति यो मर्त्यो यावज्जीवं दिनेदिने
तिथिनक्षत्रपर्वादि नापेक्ष्यं जाह्नवी जले
पंडितोपि स मूर्खः स्याच्छक्तियुक्तोप्यशक्तिकः 4.1.27.
किंवायुपाप्यरोगेण विकासिन्याथ किं श्रिया
यः कारयेदायतनं गंगाप्रतिकृतेर्नरः