भक्तिश्रद्धावतां नॄणां भूयास्तां भूतये भृशम् ।।1.3.2.21.
तपोनुरूपं भजतां लोकेष्वाचंद्रतारकम्
अद्यप्रभृति कुर्वंतु सान्निध्यं जगतां श्रियै
अरुणक्षेत्र एवात्र नित्यं कुर्वंतु संनिधिम्
त्वयाप्यरुणया देव्या स्थातव्यं करुणार्द्रया
तदस्मिन्नरुणक्षेत्रे सुलभाः सर्वसिद्धयः
इदं कृतं पर्वतराजपुत्र्या प्रसादनं शोणगिरीश्वरस्य
आह्लादितोऽस्मि शोणेशमाहात्म्यसुधया त्वया
कथं वज्रांगदः पांड्यराजः शोणव्यतिक्रमम्
कथं विद्याधराधीशौ कांतिशालिकलाधरौ
यदियं स्थेयसी भक्तिर्भवतो भूतनायके
वक्ष्ये वज्रांगदोदंतं वृत्तं विद्याभृतोरपि
आसीद्वज्रांगदोनाम पुरा पांड्येषु पार्थिवः
धार्मिको न्यायविज्ज्ञाता गंभीरो दक्षिणम् क्षमः
शिवपूजार्चनरतः श्रीमाञ्छीलवतां वरः
कदाचिन्मृगयाव्याजात्स चरन्सुतुरंगमः
स तत्र बहलामोदं कंचित्कस्तूरिकामृगम् 1.3.2.22.
स मृगोऽनुद्रुतस्तेन अभितः शोणपर्वतम्
ततः स भग्नसारोपि राजा जातश्रमश्चरन्
अज्ञातकारणेनैवं मातंगेनेव पीडितः
अचिंतयच्च कोयं मे निर्हेतुः सत्त्वविप्लवः
इति चिंताकुले तस्मिंस्तज्ज्ञानेप्यपटीयसि
निरीक्षमाण एवास्मिन्हित्वा तिर्यक्कलेवरम्
किरीटिनौ कुण्डलिनौ हारकेयूरधारिणौ
अवोचतां च नृपतिमाश्चर्याकृष्टमानसम्
राजन्नलं विषादेन शोणाद्रीशप्रभावतः
तदोवाच तयोः किंचिदाश्वस्तइव पार्थिवः 1.3.2.22.
कौ युवां निर्मितो याभ्यामभिषंगो ममेदृशः
इति तेन कृते प्रश्ने तमुवाच कलाधरः
अवेहि राजन्नावां हि पुराविद्याधरेश्वरौ