सुबाहवे नमस्तुभ्यं चारुजंघाय ते नमः
केशवाय च शांताय वामनाय नमोनमः
उवाच स हृषीकेशः प्रीतो धर्ममुदारधीः
वरं वरय धर्मज्ञ यस्ते स्यान्मनसः प्रियः
स्तोत्रेणानेन यः स्तौति मानवो मामतन्द्रितः
त्वामहं स्थापयाम्यत्र निजनाम्ना जगद्गुरो ।। 2.8.4.
स्मरणादेव मुच्येत नरो धर्महरेर्विभोः
सरयूसलिले स्नात्वा सुचिंताकुलमानसः
अत्र दानं तथा होमं जपो ब्राह्मणभोजनम्
अज्ञानाज्ज्ञानतो वापि यत्किंचिद्दुष्कृतं भवेत्
प्रायश्चित्तेन विधिना पापं तस्य प्रणश्यति
अज्ञानाज्ज्ञानतो वापि राजादेर्निग्रहात्तथा तेनाप्यत्र विधातव्यं प्रायश्चित्तं प्रयत्नतः
अत्र साक्षात्स्वयं देवो विष्णुर्वसति सादरः
आषाढे शुक्ल पक्षस्य एकादश्यां द्विजोत्तम
स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा धर्महरिं विभुम्
तस्माद्दक्षिणदिग्भागे स्वर्णस्य खनिरुत्तमा 2.8.4.
व्यास उवाच भगवन्ब्रूहि तत्त्वज्ञ स्वर्णवृष्टिरभूत्कथम्
एतत्सर्वं समाचक्ष्व विस्तरान्मम सुव्रत
यस्य श्रवणतो नृणां जायते विस्मयो महान्
आसीत्पुरा रघुपतिरिक्ष्वाकुकुलवर्द्धनः
प्रतापतापितारातिवर्गव्याख्यातसद्यशाः
यशःपूरेण समलिप्ता दिशो दश सितत्विषा
नानादेशान्समाक्रम्य चतुरंगबलान्वितः
उत्कृष्टान्नृपतीन्वीरो दंडयित्वा बलाधिकान्
स विजित्य दिशः सर्वा गृहीत्वा रत्नसंचयम्
तत्रागत्य च काकुत्स्थो यज्ञायोत्सुकमानसः 2.8.4.
वसिष्ठं मुनिमाज्ञाय वामदेवं च कश्यपम्
अन्यानपि मुनिश्रेष्ठान्नानातीर्थसमाश्रितान्
दृष्ट्वा स्थितान्स तान्सर्वान्प्रदीप्तानिव पावकान् निश्चक्राम यथान्यायं स्वयमेव महायशाः
ततो विनीतवत्सर्वान्काकुत्स्थो द्विजसत्तमान्