गंगां गंतुं विनिश्चित्य कृत्वा श्राद्धादिकं गृहे
पापानि च रुदंत्याशु हा क्व यास्याम इत्यलम्
यथा न गंगां यात्येष तथा विघ्नं प्रकुर्महे
गृहाद्गंगावगाहार्थं गच्छतस्तु पदेपदे
पूर्वजन्मकृतैः पुण्यैस्त्यक्त्वा लोभादिकं हरे
अनुषंगेण मौल्येन वाणिज्येनापि सेवया
अनिच्छयापि संस्पृष्टो दहनो हि यथा दहेत्
तावद्धमति संसारे यावद्गंगां न सेवते 4.1.27.
यो गंगांभसि निस्नातो भक्त्या संत्यक्तसंशयः
गंगास्नानार्थमुद्युक्तो मध्येमार्गं मृतो यदि
माहात्म्यं ये च गंगायाः शृण्वंति च पठंति च
दुर्बुद्धयो दुराचारा हैतुका बहुसंशयाः
जन्मांतरकृतैर्दानैस्तपोभिर्नियमैर्व्रतैः
गंगाभक्तिमतामर्थे महेंद्रादि पुरेषु च
सिद्धयः सिद्धिलिंगानि स्पर्शलिंगान्यनेकशः
गंगाजलांतस्तिष्ठंति कलिकल्मषभीतितः
सूर्योदये तमांसीव वज्रपातभयान्नगाः
तत्त्वज्ञानाद्यथा मोहः सिंहं दृष्ट्वा यथा मृगाः 4.1.27.
दिव्यौषधैर्यथा रोगा लोभेन च यथा गुणाः
तूलशैलः स्फुलिंगेन यथा नश्यति तत्क्षणात्
क्रोधेन च तपो यद्वत्कामेन च यथा मतिः
दंभ कौटिल्य मायाभिर्यथाधर्मो विनश्यति
मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचंचलम्
विधूतपापा ये मर्त्याः परं ज्योतिःस्वरूपिणीम्
साधारणांभसा पूर्णां साधारण नदीमिव
संसारमोचकश्चाहं जनानामनुकंपया
सर्व एव शुभः कालः सर्वो देशस्तथा शुभः
यथाश्वमेधो यज्ञानां नगानां हिमवान्यथा 4.1.27.
प्राणायामश्च तपसां मंत्राणां प्रणवो यथा
यथात्मविद्या विद्यानां स्त्रीणां गौरी यथोत्तमा