गंगा हि सर्वभूतानामिहामुत्र फलप्रदा
यज्ञ दान तपो योग जपाः सनियमा यमाः
किमष्टांगेन योगेन किं तपोभिः किमध्वरैः
अपि दूरस्थितस्यापि गंगामाहात्म्यवेदिनः
श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं परं तपः
अज्ञानरागलोभाद्यैः पुंसां संमूढचेतसाम्
बहिः स्थितं जलंयद्वन्नारिकेलांतरे स्थितम्
गंगालाभात्परो लाभः क्वचिदन्यो न विद्यते 4.1.27.
शक्तस्य पंडितस्यापि गुणिनो दानशीलिनः
वृथा कुल वृथा विद्या वृथा यज्ञा वृथातपः
गुणवत्पात्रपूजायां न स्याद्वै तादृशं फलम्
ममतेजोग्निगर्भेयं ममवीर्यातिसंवृता
स्मरणादेव गंगायाः पापसंघातपंजरम्
गंगां गच्छति यस्त्वेको यस्तु भक्त्यानुमोदयेत्
गच्छंस्तिष्ठञ्जपन्ध्यान्भुंजञ्जाग्रत्स्वपन्वदन्
पितॄनुद्दिश्य योभक्त्या पायसं मधुसंयुतम्
तृप्ता भवंति पितरस्तस्य वर्षशतं हरे
लिंगे संपूजिते सर्वमर्चितं स्याज्जगद्यथा 4.1.27.
गंगायां तु नरः स्नात्वा यो लिंगं नित्यमर्चति
अग्निहोत्रं च यज्ञाश्च व्रतदानतपांसि च
गंगां गंतुं विनिश्चित्य कृत्वा श्राद्धादिकं गृहे
पापानि च रुदंत्याशु हा क्व यास्याम इत्यलम्
यथा न गंगां यात्येष तथा विघ्नं प्रकुर्महे
गृहाद्गंगावगाहार्थं गच्छतस्तु पदेपदे
पूर्वजन्मकृतैः पुण्यैस्त्यक्त्वा लोभादिकं हरे
अनुषंगेण मौल्येन वाणिज्येनापि सेवया
अनिच्छयापि संस्पृष्टो दहनो हि यथा दहेत्
तावद्धमति संसारे यावद्गंगां न सेवते 4.1.27.
यो गंगांभसि निस्नातो भक्त्या संत्यक्तसंशयः
गंगास्नानार्थमुद्युक्तो मध्येमार्गं मृतो यदि