यथा सदाशिव त्वत्तो न किंचिदधिकं शिवम्
विना सांख्येन योगेन विना स्वात्मावलोकनम्
शशका मशका कीटाः पतं गास्तुरगोरगाः 4.1.26.
नामापि गृह्णतां काश्याः सदैवास्त्वेनसः क्षयः
सदा कृतयुगं चास्तु सदाचास्तूत्तरायणम्
यानि कानि पवित्राणि श्रुत्युक्तानि सदाशिव
चतुर्णामपि वेदानां पुण्यमध्ययनाच्च यत्
अष्टांगयोगाभ्यासेन यत्पुण्यमपि जायतेः
कृच्छ्रचांद्रायणाद्यैश्च यच्छ्रेयः समुपार्ज्यते
अन्यत्र यत्तपस्तप्त्वा श्रेयः स्याच्छरदां शतम्
आजन्म मौनव्रततो यदन्यत्रफलं स्मृतम्
अन्यत्र दत्त्वा सर्वस्वं सुकृतं यत्समीरितम्
मुक्तिक्षेत्राणि सर्वाणि यत्संसेव्योदितं फलम् 4.1.26.
प्रयागस्नानपुण्येन यत्पुण्यं स्याच्छिवप्रदम्
यत्पुण्यमश्वमेधेन यत्पुण्यं राजसूयतः
तुलापुरुषदानेन यत्पुण्यं सम्यगाप्यते
इति विष्णोर्वरं श्रुत्वा देवदेवो जगत्पतिः
विधेहि सृष्टिं विविधां यथावत्त्वं श्रुतीरिताम्
पितेव सर्वभूतानां धर्मतः पालको भव
धर्मेतरपथस्थानामुपसंहृतये हरे
यथा परिणतं सस्यं पतेत्प्रसवबंधनात्
ये च त्वामवमन्यंते दर्पिताः स्वतपोबलैः
उपपातकिनो ये च महापातकिनश्च ये 4.1.26.
विष्णोऽविमुक्ते संवासः कर्मनिर्मूलनक्षमः 4.1.26.
अश्रद्धयापि यः स्नातो मणिकर्ण्यां विधानतः 4.1.26.
योसौ विश्वेश्वरो देवः काशीपुर्यामुमे स्थितः 4.1.26.
बहूपसर्गो योगोयं कृच्छ्रसाध्यं तपो हि यत् 4.1.26.
व्यास उवाच सर्वपापप्रशमनीं पुनः स्कंद उवाच ह ।। 4.1.26.
स्कंद उवाच तथा च कथयामीह देवदेवेनभाषितम्
प्राप्तं वाराणसीत्याख्यामविमुक्तं यथा तथा