अन्यं वरं वरे देव देयः सोप्यविचारितम्
आब्रह्मस्तंबपर्यंतं यत्किंचिज्जंतुसंज्ञितम्
अस्मिंस्तीर्थवरे शंभो मणिश्रव णभूषणे तर्पण पिंडदानं च देवतानां च पूजनम् ।। 4.1.26.
गोभूतिलहिरण्याश्वदीपान्नांबरभूषणम्
व्रतोत्सर्गं वृषोत्सर्गं लिंगादि स्थापनं तथा
विपत्तिं विपुलां चापि संपत्तिमतिभंगुराम्
अन्यच्चापि शुभं कर्म यदत्र श्रद्धयायुतम्
नैःश्रेयस्याः श्रियो हेतुस्तदस्तु जगदीश्वर
तदिहाक्षयतामेतु तस्येश त्वदनुग्रहात्
यदस्ति यद्भविष्यच्च यद्भूतं च सदाशिव
यथा सदाशिव त्वत्तो न किंचिदधिकं शिवम्
विना सांख्येन योगेन विना स्वात्मावलोकनम्
शशका मशका कीटाः पतं गास्तुरगोरगाः 4.1.26.
नामापि गृह्णतां काश्याः सदैवास्त्वेनसः क्षयः
सदा कृतयुगं चास्तु सदाचास्तूत्तरायणम्
यानि कानि पवित्राणि श्रुत्युक्तानि सदाशिव
चतुर्णामपि वेदानां पुण्यमध्ययनाच्च यत्
अष्टांगयोगाभ्यासेन यत्पुण्यमपि जायतेः
कृच्छ्रचांद्रायणाद्यैश्च यच्छ्रेयः समुपार्ज्यते
अन्यत्र यत्तपस्तप्त्वा श्रेयः स्याच्छरदां शतम्
आजन्म मौनव्रततो यदन्यत्रफलं स्मृतम्
अन्यत्र दत्त्वा सर्वस्वं सुकृतं यत्समीरितम्
मुक्तिक्षेत्राणि सर्वाणि यत्संसेव्योदितं फलम् 4.1.26.
प्रयागस्नानपुण्येन यत्पुण्यं स्याच्छिवप्रदम्
यत्पुण्यमश्वमेधेन यत्पुण्यं राजसूयतः
तुलापुरुषदानेन यत्पुण्यं सम्यगाप्यते
इति विष्णोर्वरं श्रुत्वा देवदेवो जगत्पतिः
विधेहि सृष्टिं विविधां यथावत्त्वं श्रुतीरिताम्
पितेव सर्वभूतानां धर्मतः पालको भव
धर्मेतरपथस्थानामुपसंहृतये हरे