यस्मिन्न्यस्ते महाभारे आवां स्वः स्वैरचारिणौ
स एव सर्वं कुरुते स एव परिपाति च
चेतःसमुद्रमाकुंच्य चिंताकल्लोलदोलितम् 4.1.26.
यस्य प्रसादात्तिष्ठावः सुखमानंदकानने
संप्रधार्येति स विभुः सर्वतश्चित्स्वरूपया
सव्ये व्यापारयांचक्रे दृशमंगे सुधामुचम्
शांतः सत्त्वगुणोद्रिक्तो गांभीर्य जितसागरः
इंद्रनीलद्युतिःश्रीमान्पुंडरीकोत्तमेक्षणः
लसत्प्रचंडदोर्दंड युगलद्वयराजितः
एकः सर्वगुणावासस्त्वेकः सर्वकलानिधिः
ततो महांतं तं वीक्ष्य महामहिमभूषणम्
तव निःश्वसितं वेदास्तेभ्यः सर्वमवैष्यसि
इत्युक्त्वा तं महेशानो बुद्धितत्त्वस्वरूपिणम् 4.1.26.
ततः स भगवान्विष्णुर्मौलावाज्ञां निधाय च
खनित्वा तत्र चक्रेण रम्यां पुष्करिणीं हरिः
समाः सहस्रं पंचाशत्तप उग्रं चचार सः
ततः स भगवानीशो मृडान्या सहितो मृडः
तमुवाच हृषीकेशं मौलिमांदोलयन्मुहुः
अहो अनिंधनो वह्निर्ज्वलत्येष निरंतरम्
मृडस्याम्रोडितमिदं प्रत्यभिज्ञाय भाषितम्
श्रीविष्णुरुवाच यदि प्रसन्नो देवेश देवदेव महेश्वर
सर्वकर्मसु सर्वत्र त्वामेव शशिशेखर
त्वदीय चरणांभोज मकरंदमधूत्सुकः 4.1.26.
एवमस्तु हृषीकेश यत्त्वयोक्तं जनार्दन
त्वदीयस्यास्य तपसो महोपचय दर्शनात्
तदांदोलनतः कर्णात्पपात मणिकर्णिका
चक्रपुष्करिणी तीर्थं पुराख्यातमिदं शुभम्
मम कर्णात्पपातेयं यदा च मणिकर्णिका
तीर्थानां परमं तीर्थं मुक्तिक्षेत्रमिहास्तु वै
काशतेऽत्र यतो ज्योतिस्तदनाख्येयमीश्वरः