महाप्रलय काले च नष्टे स्थावरजंगमे
अचंद्रमनहोरात्रमनग्न्यनिलभूतलम्
द्रष्टृत्वादि विहीनं च शब्दस्पर्शसमुज्झितम् 4.1.26.
इत्थं सत्यंधतमसि सूचीभेद्ये निरंतरे
अमनोगोचरोवाचां विषयं न कथंचन
अह्रस्वदीर्घमलघुगुरुत्वपरिवर्जितम्
अभिधत्ते स चकितं यदस्तीति श्रुतिः पुनः
अप्रमेयमनाधारमविकारमनाकृति
निर्विकल्पं निरारंभं निर्मायं निरुपद्रवम्
तस्यैकलस्य चरतो द्वितीयेच्छा भवत्किल
सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा
सर्वैकवंद्या सर्वाद्या सर्वदा सर्वसंकृतिः
अंतर्दधे पराख्यं यद्ब्रह्मसर्वंगमव्ययम् ।। 4.1.26.
अमूर्तं यत्पराख्यं वै तस्य मूर्तिरहं प्रिये
ततस्तदैकलेनापि स्वैरं विहरतामया
प्रधानं प्रकृतिं त्वां च मायां गुणवतीं पराम्
युगपच्च त्वया शक्त्या साकं कालस्वरूपिणा
सा शक्तिः प्रकृतिः प्रोक्ता स पुमानीश्वरः परः
परमानंदरूपाभ्यां परमानंदरूपिणी
मुने प्रलयकालेपि न तत्क्षेत्रं कदाचन
न यदा भूमिवलयं न यदाऽपां समुद्भवः
इदं रहस्यं क्षेत्रस्य वेद कोपि न कुंभज
श्रद्धालवे विनीताय त्रिकालज्ञानचक्षुषे 4.1.26.
अविमुक्तं तदरभ्य क्षेत्रमेतदुदीर्यते
(पर्यंक) अभावः कल्प्यते मूढैर्यदा च शिवयोस्तयोः
अनाराध्य महेशानमनवाप्य च काशिकाम्
अस्यानंदवनं नाम पुरा कारि पिनाकिना
आनंदकंदबीजानामंकुराणि यतस्ततः
अविमुक्तमिति ख्यातमासीदित्थं घटोद्भव
प्रागानंदवने तत्र शिवयो रममाणयोः