श्रुतं च यत्तदुत्संगे स्थितेन स्थिरचेतसा
गुह्यानां परमं गुह्यमविमुक्तमिहेरितम्
भूर्लोके नैव संलग्नं तत्क्षेत्रं त्वंतरिक्षगम्
यस्तत्र निवसेद्विप्र संयतात्मा समाहितः
निमेषमात्रमपि यो ह्यविमुक्तेऽतिभक्तिभाक् 4.1.25.
यस्तु मासं वसेद्धीरो लघ्वाहारो जितेंद्रियः
संवत्सरं वसंस्तत्र जितक्रोधो जितेंद्रियः
परापवादरहितः किंचिद्दानपरायणः
यावज्जीवं वसेद्यस्तु क्षेत्रमाहात्म्यविन्नरः
न योगैर्या गतिर्लभ्या जन्मांतरशतैरपि
ब्रह्महा योऽभिगच्छेद्वै दैवाद्वाराणसीं पुरीम्
आदेहपतनं यावद्योविमुक्तं न मुंचति
अनन्यमानसो भूत्वा तत्क्षेत्रं यो न मुंचति
अविमुक्तं निषेवेत देवर्षिगणसेवितम्
अविमुक्तं न मुंचेत संसारभयमोचनम् 4.1.25.
कृत्वा पापसह्स्राणि पिशाचत्वं वरंत्विह
अंतकाले मनुष्याणां भिद्यमानेषु मर्मसु
तत्रोत्क्रमणकाले तु साक्षाद्विश्वेश्वरः स्वयम्
अशाश्वतमिदं ज्ञात्वा मानुष्यं बहुकिल्बिषम्
विघ्रैरालोड्यमानोपि योऽविमुक्तं न मुंचति
महापापौघशमनीं पुण्योपचयकारिणीम्
एवं ज्ञात्वा तु मेधावी नाविमुक्तं त्यजेन्नरः
अविमुक्तस्य माहात्म्यं षड्भिर्वक्त्रैः कथं मया
अगस्तिरुवाच प्रसन्नोसि यदि स्कंद मयि प्रीतिरनुत्तमा
अविमुक्तमिदं क्षेत्रं कदारभ्य भुवस्तले
कथमेषा त्रिलोकीड्या गीयते मणिकर्णिका
वाराणसीति काशीति रुद्रावास इति प्रभो आनंदकाननं रम्यमविमुक्तमनंतरम्
महाश्मशान इति च कथं ख्यातं शिखिध्वज
प्रश्नभारोयमतुलस्त्वया यः समुदाहृतः
यथा च देवदेवेन सर्वज्ञेन निवेदितम्