अहो मतेः सुदौर्बल्यमहोभाग्यस्य दौर्विधम्
शरीरं जीर्यते नित्यं संजीर्यंतींद्रियाण्यपि
सापदं संपदं ज्ञात्वा सापायं कायमुच्चकैः
यावन्नैत्यायुषश्चांतस्तावत्काशी न मुच्यते
जरानिकटनिक्षिप्ता बाधंते व्याधयो भृशम् 4.1.25.
तीर्थस्नानेन जप्येन परोपकरणोक्तिभिः
विनैवार्थार्जनोपायं धर्मादर्थो भवेद्ध्रुवम्
धर्मादर्थोऽर्थतः कामः कामात्सर्वसुखोदयः
उपायत्रयमेवात्र स्थाणुर्निर्वाणकारणम्
पूर्वं पाशुपतो योगस्ततस्तीर्थं सितासितम्
श्रीशैल हिमशैलाद्या नानान्यायतनानि च
तपांसि नानारूपाणि व्रतानि नियमा यमाः
मानसान्यपि भौमानि धारातीर्थादिकानि च
जपश्चापि मनूनां च तथाऽग्निहवनानि च
त्रिरात्रं पंचरात्राणि सांख्ययोगादयस्तथा 4.1.25.
पुर्यश्चापि समाख्यातानृतजंतु विमुक्तिदा
एतानि यानि प्रोक्तानि काशीप्राप्तिकराणि च
अतएव हि तत्क्षेत्रं पवित्रमतिचित्रकृत्
इदमेव हि तत्क्षेत्रं कुशलप्रश्नकारणम्
अपि काश्याः समागच्छत्स्पर्शवत्स्पर्श इष्यते
त्रिरात्रमपिये काश्यां वसंति नियतेंद्रियाः
त्वं तु तत्र कृतावासः कृतपुण्यमहोच्चयः
तव तत्र तु यत्कुंडमगस्तीश्वरसन्निधौ
पितॄन्पिंडैः समभ्यर्च्य श्रद्धाश्राद्धविधानतः
इत्युक्त्वा सर्वगात्राणि स्पष्ट्वा कुंभोद्भवस्य च 4.1.25.
जय विश्वेश नेत्राणि विनिमील्य वदन्नपि
स्कंदे विसर्जितध्याने सुप्रसन्नमनोमुखे
वाराणस्यास्तु महिमा हिमशैलभुवे मुदा
त्वया यथा समाकर्णि तदुत्संगनिवासिना
तत्क्षेत्रस्याविमुक्तस्य मम मातुः पुरः पुरा