इति संहृष्टतनूरुहः स विप्रो भगवत्तद्गणवक्त्रतो निशम्य
मायापुर्यां कृतप्राणत्याग पुण्यबलेन च
वैकुंठलोकादागत्य पत्तने नंदिवर्धने
तेषु राज्यं विनिक्षिप्य प्राप्य वाराणसीं पुरीम्
एतत्पुण्यतमाख्यानं विप्रस्य शिवशर्मणः
यामाकर्ण्य नरो भूयाद्विरजा ज्ञानभाजनम्
गिरिं प्रदक्षिणीकृत्य श्रीसंज्ञं कलशोद्भवः
सर्वर्तं कुसुमाढ्यं च रसवत्फलपादपम्
निवीतश्वापदगणं ससरित्पल्वलावृतम्
नानापतत्रिसंघुष्टं नानामुनिजनोषितम्
लोहितो नाम तत्रास्ति गिरिः स्वर्णगिरिप्रभः
कैलासस्यैकशकलं कर्मभूमाविहागतम्
तत्राद्राक्षीन्मुनिश्रेष्ठोऽगस्त्यः साक्षात्षडाननम्
तुष्टाव गिरिजासूनुं सूक्तैः श्रुतिसमुद्भवैः
अगस्तिरुवाच नमोस्तु वृंदारकवृंदवंद्य पादारविंदाय सुधाकराय 4.1.25.
नमोस्तु तुभ्यं प्रणतार्तिहंत्रे कर्त्रे समस्तस्य मनोरथानाम्
अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गुण्याय परात्पराय
नमोस्तु ते ब्रह्मविदांवराय दिगंबरायांबर संस्थिताय
तपःस्वरूपाय तपोधनाय तपःफलानां प्रतिपादकाय
नमोस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदंतपंक्तये
मीढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय
सर्वस्य नाथस्य कुमारकाय क्रौंचारये तारकमारकाय
इत्थं परिष्टुत्य स कार्तिकेयं नमो नमस्त्वित्यभिभाषमाणः
जाने त्वामिह संप्राप्तं तथा विंध्याचलोन्नतिम्
अविमुक्ते महाक्षेत्रे क्षेमं त्र्यक्षेण रक्षिते 4.1.25.
भूर्भुवः स्वस्तले वापि न पातालतले मलम्
अहमेकचरोप्यत्र तत्क्षेत्रप्राप्तये मुने
न तत्पुण्यैर्न तद्दानैर्न तपोभिर्न तज्जपैः
ईश्वरानुग्रहादेव काशीवासः सुदुर्लभः
अन्यैव काचित्सा सृष्टिर्विधातुर्याऽतिरेकिणी