अवैमि त्वामपि नृपद्विजोऽभूः पूर्वजन्मनि
तत्पुण्यात्प्राप्य वैकुंठं भुक्त्वा भोगान्मनोरमान्
वृद्धकालावनीपाल तेनैव सुकृतेन च
अन्यच्च शृणु राजेंद्र त्वया यत्समुदीरितम्
सुकृतं नैव सततमाख्यातव्यं कदाचन
तस्मात्सर्वप्रयत्नेन गोपनीयं निधानवत् 4.1.24.
निश्चितं विश्वनाथेन प्रेरितेन त्वयाऽनघ
वृद्धकालेश्वरं नाम लिंगमेतन्महीपते
दर्शनात्स्पर्शनात्तस्य पूजनाच्छ्रवणान्नतेः
कूपः कालोदको नाम जराव्याधिविघातकृत्
कृतकूपोदकस्नानः कृतैतल्लिंगपूजनः
न कुष्ठं न च विस्फोटा नरंघा न विचर्चिका
नाग्निमांद्यं नैव शूलं न मेहो न प्रवाहिका
भूतज्वराश्च ये केचिद्ये केचिद्विषमज्वराः
तवाग्रतो मम जरा पलितं च यथाविधि
वृद्धकालेश्वरे लिंगे सेवितेन दरिद्रता 4.1.24.
उत्तरे कृत्तिवासस्य वाराणस्यां प्रयत्नतः
इत्युक्त्वा तं महीपालं हस्ते धृत्वा तपोधनः
महाकाल महाकाल महाकालेति कीर्तनात्
इत्थं भवित्री ते मुक्तिः कैटभारातिदर्शनात्
इति संहृष्टतनूरुहः स विप्रो भगवत्तद्गणवक्त्रतो निशम्य
मायापुर्यां कृतप्राणत्याग पुण्यबलेन च
वैकुंठलोकादागत्य पत्तने नंदिवर्धने
तेषु राज्यं विनिक्षिप्य प्राप्य वाराणसीं पुरीम्
एतत्पुण्यतमाख्यानं विप्रस्य शिवशर्मणः
यामाकर्ण्य नरो भूयाद्विरजा ज्ञानभाजनम्
गिरिं प्रदक्षिणीकृत्य श्रीसंज्ञं कलशोद्भवः
सर्वर्तं कुसुमाढ्यं च रसवत्फलपादपम्
निवीतश्वापदगणं ससरित्पल्वलावृतम्
नानापतत्रिसंघुष्टं नानामुनिजनोषितम्