प्रासादः कारितः केन जानास्येष ततो वद
पृष्टस्त्वमिति ते नाथ तदा वृद्ध तपस्विना
दाक्षिणात्य इह प्राप्तस्त्वेतया सह कांतया
प्रासादस्यास्य जटिल स्वयंकारयिता शिवः
इति श्रुत्वा नरपतेर्वाक्यंप्राह जटाधरः
पश्येयं त्वामहं नित्यमुपविष्टं सुनिश्चलम् 4.1.24.
ममाग्रे तत्समाचक्ष्व यदि जानासि तत्त्वतः
कर्ता कारयिता शंभुः किमतथ्यं ब्रवीम्यहम्
इति त्वयि स्थिते जोषं स पुनर्वृद्धतापसः
इति तेन च नुन्नस्त्वं वार्यानीय च कूपतः
तदंबुपानतो भूयात्सुपार्वण शशिप्रभः
जाताश्चर्येण भवता पुनरेवाभ्यभाषि सः
परित्यज्यात्र जरसं न वो भ्राजसि सांप्रतम्
तपोधन उवाच वृद्धकालक्षितिपते जाने त्वां सुमहामते
जन्मनोऽस्मादियं राजन्नासीद्विप्रस्य कन्यका
तेन दत्ता विवाहार्थं नैध्रुवाय महात्मने 4.1.24.
वैधव्यं पालयंत्येषा मृताऽवंत्यां शुभव्रता
परिणीता त्वया राजन्पतिव्रतरता सदा
अयोध्यायामथावंत्यां मथुरायामथापि वा
अपि पातकिनो ये च कालेन निधनं गताः
अवैमि त्वामपि नृपद्विजोऽभूः पूर्वजन्मनि
तत्पुण्यात्प्राप्य वैकुंठं भुक्त्वा भोगान्मनोरमान्
वृद्धकालावनीपाल तेनैव सुकृतेन च
अन्यच्च शृणु राजेंद्र त्वया यत्समुदीरितम्
सुकृतं नैव सततमाख्यातव्यं कदाचन
तस्मात्सर्वप्रयत्नेन गोपनीयं निधानवत् 4.1.24.
निश्चितं विश्वनाथेन प्रेरितेन त्वयाऽनघ
वृद्धकालेश्वरं नाम लिंगमेतन्महीपते
दर्शनात्स्पर्शनात्तस्य पूजनाच्छ्रवणान्नतेः
कूपः कालोदको नाम जराव्याधिविघातकृत्