लयित्वा निजमास्थाय रूपमुत्कटसुन्दरम्
मानातिरेकादपहाय सर्वमैश्वर्यमेवं तपसि प्रवृत्ताम्
शक्रः पुलोमसुतया परे दिक्पालका अपि
गंधर्वाप्सरसां संघा वसवोऽपि सुरा अपि
एकादशमहारुद्रा आदित्या द्वादशापि च
यक्षरक्षोरगा भूता ये चान्ये शिवकिंकराः
परिवार्य महेशानं समाजग्मुः सहस्रशः
अतीव विस्मयं भेजुः सर्वे कल्पांतभीषणम्
चिररात्रप्ररूढां च तद्वियोगव्यथां जहौ
पादांगुलीषु नयने विनिवेशयति स्म सा स्मितशरीरकंठश्रीप्रणयेनैवमब्रवीत्
सर्वैराराधनीयेति मयापि घटितोंजलिः 1.3.2.21.
अनादिसिद्धं देवेशि तवेदं मौग्ध्यमीदृशम्
तपः समाधयश्चेति क्व कर्कशजनोचिताः । नारायणोहं लक्ष्मीस्त्वं ब्रह्मास्मि त्वं सरस्वती
वारुणी त्वं फणींद्रोहं रोहिणी त्वमहं शशी
जाह्नवी त्वं समुद्रोऽहं मेरुरस्मि त्वमुर्वरा
बुद्धिस्त्वं राजराजोहं त्वं शमाऽहं समीरण
विद्या त्वं वेदितव्योऽहं वाक्त्वमर्थोपि पार्वती
सृष्टि स्थित्युपसंहारविधानानुग्रहेश्वरे
चित्प्रकाशात्मनोर्देवि स्वेच्छाधृतशरीरया
दृष्टाप्रतिक्रिया तस्य क्रियते याधुना मया
गौरीं स्वकीय एवांगे गूहमानामिव ह्रिया 1.3.2.21.
अर्थद्वयमिवाह्नाय संनिकर्षोपलंभतः
तद्विचित्रमभूदंगं शिवयोरेकतां गतम्
अंगादर्धेंदुचूडस्य वपुरर्धेन्दुकूलितम्
एकपिंगलसध्रीचो गात्रमेकस्तनं बभौ
अवकाशो रुषो देवि मा भूरतः परं तव
तदपीतस्तनीनाम्ना निवसात्र ममांतिके
जनाः सर्वे समाराध्य रमंतां भोगमोक्षयोः
अत्रैव सन्निधत्तां तु मंत्रसिद्धिप्रदा नृणाम्
सर्वरोगहरं पुंसामस्तु सर्वाघनाशनम्