औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे
कंपःसात्त्विकभावोत्थो न भयात्क्वापि कस्यचित्
दुर्लभत्वं सदा कस्य सुकृतेन च वस्तुनः
दानहानिर्गजेष्वेव द्रुमेष्वेव हि कंटकाः
बाणेषु गुणविश्लेषो बंधोक्तिः पुस्तके दृढा
दंडवार्ता सदा यत्र कृतसंन्यासकर्मणाम् 4.1.24.
यत्र क्षपणका एव दृश्यंते मलधारिणः
इत्यादि गुणवद्देशे त्वयिराज्यं प्रशासति
सौभाग्यभाजि रूपाढ्ये शौर्यौदार्यगुणान्विते
राज्ञीनामयुतंभावि कुमाराणां शतत्रयम्
विजितानेकसमरः श्रीसंतर्पितमार्गणः
संततावभृथक्लिन्न मूर्धजः क्षितिषर्षभः
पदारविंदं गौविंदं हृदि ध्यायन्नतंद्रितः
कदाचिदुपविष्टःसन्मध्ये राजसभं द्विज
तत्कर्मभाविसदृशैस्तदात्वमभिनंदितः
श्रीमद्विश्वेश्वरो देवो विश्वेषां जगतां गुरुः 4.1.24.
नैःश्रेयसीं च संपत्तिं यो देयात्स्मरणादपि
येन पुण्येन ते प्राप्तं राज्यं प्राज्यमकंटकम्
यस्य प्रसादात्सुलभमायुः पुत्रांबरागनाः
नामश्रवणमात्रेण यस्य विश्वेशितुर्विभोः
त्वं वृद्धकालो भूपालः श्रुत्वेत्याशीः परंपराम्
आकारगोपनं कृत्वा तेभ्यो दत्त्वा धनं बहु
अनंगलेखया राज्ञ्या ततः काशीं गमिष्यसि
स्वनाम्ना तत्र संस्थाप्य लिंगं निर्वाणकारणम्
विधाय विधिवत्तत्र कलशारोपणादिकम्
महाध्वजपताकाश्च च्छत्रचामरदर्पणम् 4.1.24.
व्रतोपवासनियमैः परिक्षीणकलेवरः
अतीवजीर्णवपुषं परिपिंगजटान्वितम्
भारं शरीरयष्टेश्च दृढयष्ट्यां समर्प्य च
उपविश्य समीपे ते प्रक्ष्यत्येवमनुक्रमात्